search
Q: अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तेरेभ्य: उचिततमम् उत्तरं चिनुत - लौहपुरुष: सरदारवल्लभभाईपटेल: जन्मत: कृषक: आसीत् । तस्य जन्म 1875 तमे खीष्टाब्दे गुर्जरप्रदेशे अभवत्। तस्य पिता 1857 वर्षस्य प्रथमस्वतन्त्रतायुद्धे सहभागी आसीत्। यद्यपि अयं महापुरुष: आङ्ग्लदेशात् विधिपरीक्षायां प्रथमश्रेण्यां प्रथमं स्थानं लब्ध्वा अधिवक्ता जात:, तथापि स: स्वकीयं सम्पूर्ण जीवनम् भारतस्य स्वतन्त्रता-संग्रामाय अर्पितवान्। स: बारदोली-कृषकाणाम् आन्दोलनस्य सफलं नेतृत्वं अकरोत्। तेन कारणेन महात्मा गान्धिना ‘सरदार’ इति उपाधिना सम्मानित:। गुर्जरप्रदेशे जलौघ-पीडितानां भूकम्पपीडितानां च एष: अहर्निशं सेवाम् अकरोत्। अनेकवारं स: कारागारे पातित:। तस्य वृद्धा माता आङ्ग्लाधिकारिभि: प्रताडिता। 1942 तमे वर्षे, ‘भारतं त्यजत’ इति आन्दोलने स अकथयत् न केवलं भारतं त्यजत अपितु एशियामेव त्यजत इति वक्तव्यम्। स्वतन्त्रभारतस्य स उपप्रधानमन्त्री अभवत्। भारतं तदा अनेकेषु लघुराज्येषु विभक्तम् आसीत्। स: स्वनीतिचातुर्येण षट्शतस्वदेशीय राज्यानाम् अखण्डे भारते विलयम् अकरोत् । लौहपुरुष: श्रीपटेल: अतीव अनुशासनप्रिय: आसीत्। भारतस्य वर्तमान स्वरूपं तस्य एव सत्प्रयत्नानां परिणाम:। सरदारपटेलस्य जन्म कुत्र अभवत् ?
  • A. कर्नाटकप्रदेशे
  • B. सीमान्तप्रदेशे
  • C. आन्ध्रप्रदेशे

Explanations: