1
सूचना: अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र.सं. 301-307) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत। विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा प्राचीनतमा भाषास्ति। भाषेयम् अनेकानां भाषाणां जननी मता। प्राचीनयो: ज्ञान-विज्ञानयो: निधि: अस्यां सुरक्षित:। संस्कृतस्य महत्त्वविषये केनापि कथितम् -‘‘भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा’’। इयं भाषा अतीव वैज्ञानिकी। केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्यकृते सर्वोत्तमा भाषा। अस्या: वाङ्मयं वेदै: पुराणै: नीतिशास्त्रे: चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालिदासादीनां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। कौटिल्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमम् आर्यभट्ट: अकरोत्। चिकित्साशास्त्रे चरकसुश्रुतयो: योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु वास्तुशास्त्रं, रसायनशास्त्रं खगोलविज्ञानं, ज्योतिषशास्त्रं, विमानशास्त्रम् इत्यादीनि उल्लेखनीयानि। संस्कृते विद्यमाना: सूक्तय: अभ्युदयाय प्रेरयन्ति। यथा- सत्यमेव जयते, वसुधैव कुटुम्बकम्, विद्ययाऽमृतमश्नुते, योग: कर्मसु कौशलम् इत्यादय:। सर्वभूतेषु आत्मवत् व्यवहारं कर्तुं संस्कृतभाषा सम्यक् शिक्षयति।सर्वभूतेषू आत्मवत् व्यवहारं कर्तुं संस्कृतभाषा शिक्षयति चेत् तेन विंâ प्राप्यते?