7
निर्देश.: अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत। पूर्वं दक्षिणप्रदेशे एक: त्यागराज: नाम विद्वान् आसीत्। तस्य पुत्री ज्ञानाम्बा अतीव बुद्विमती आसीत्। तस्या: बुद्धिमत्वकारणात् एव तस्यै वर: दुर्लभ: आसीत्। कश्चिदपि ज्ञानेन तस्या: समतां न अकरोत्। एकदा तस्या: पित्रा त्यागराजेन पार्श्वस्थग्रामस्य कश्चित् - पण्डितपुत्र: वररूपेण अन्विष्ट: ज्ञानाम्बां च तस्य विषये असूचयत् । परन्तु ज्ञानाम्बा उक्तवती यत् अहं स्वयमेव तं द्रक्ष्यामि, प्रश्नं च प्रक्ष्यामि । ज्ञानाम्बाया: वाक्यं श्रुत्वा त्यागराज: चिन्तितोऽभवत् । तदा एकस्मिन् दिवसे स: वरस्य ग्रामं गत्वा तस्य पितरं ज्ञानाम्बाया: विचारम् अकथयत्। तस्य पिता ज्ञानाम्बाया: बुद्धिमत्त्वम् अजानत् । यद्यपि स: स्वपुत्रस्य ज्ञानविषये आश्वस्तो न आसीत्। तथापि तेन ज्ञानाम्बाया: साक्षात्कारार्थम् स्वीकृति: प्रदत्ता । अथ निश्चिते दिने स: पण्डित: स्वपुत्रेण सह त्यागराजकवे: गृहम् आगत:। प्रणामानन्तरम् ज्ञानाम्बा स्वपितरम् अवदत् यत् उभौ एव भवन्तौ पृथक् कक्षे तिष्ठताम् । अहम् अत्र एव द्वित्रान् सरलप्रश्नान् प्रक्ष्यामि । ज्ञानाम्बाकथनानुसारं त्यागराज: वरपितरं गृहीत्वा अन्यस्मिन् कक्षे अगच्छत् । ज्ञानाम्बा तं युवकं तस्य नाम अपृच्छत्। स: च ‘बोधराज:’ इति स्वनाम अवदत्। तदा ज्ञानाम्बा अपृच्छत्-अयि भो: व्याकरणं तु जानासि। तेन उक्तम् – आम् जानामि। मम अयम् प्रश्न: ‘एक: बालक: विहस्य मातरं पृच्छति – अम्ब, माम् विहाय कुत्र गच्छसि’ इति, कृपया ‘विहस्य विहाय’ इति पदयो: व्याकरणपरिचय: दीयताम्। पण्डितसूनु: अवदत् – स्पष्टमेव अत्र क्रमश: पष्ठी च चतुर्थी च विभक्ति: दृश्यते। ज्ञानाम्बया उक्तम् बाढम्, तर्हि ‘अहं कथम्’ इति पदयो: तु द्वितीया-विभक्ति: भवेत्? युवक: अवदत् –सत्यमुक्तम् त्वया ‘एवमेवास्ति। ज्ञानाम्बया कथितम् – क्षणं तिष्ठतु भवान्, अहं किञ्चित् भोजनमानयामि। युवकोऽवदत् – नैव नैव, पित्रा सह गन्तव्यमस्ति। अस्मिनन्तरे त्यागराज: बोधराजपित्रा सह आगत: । तदा त्यागराजेन पृष्टम् जाते! तव प्रश्नानामुत्तराणि कथं दत्तानि? ज्ञानाम्बा स्मयमाना आसीत्। त्यागराज: कथितवान् –सम्यग् उत्तराणि दत्तानि, इति मन्ये। तदा ज्ञानाम्बा इमं श्लोकमवदत् – ‘‘यस्य षष्ठी चतुर्थी च, विहस्य विहाय च। अहं कथं द्वितीया स्यात्, द्वितीया स्याम् अहं कथम् ।। एतच्छ्रुत्वा त्यागराज: निराश: अभवत्। हस्तयो: शिर: गृहीत्वा निम्नमुख: उपाविशत्। स: चिन्तित: आसीत् – किं कर्तव्यं कोऽपि ज्ञानवान् युवक: न दृश्यते ? वस्तुत: विदुष्य: युवतय: समानं वरमिच्छन्ति। अत एव केनचित् कविना उक्तम् – ‘‘व्युत्पन्नमतयो बाला: तुल्यं वाञ्छन्ति बल्लभम्। त्यागराजकवे: पुत्री ज्ञानाम्बा धीमती यथा।।’’ युवकस्य पिता ज्ञानाम्बाया: किम् अजानत्?