6
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: उचितमम् उत्तरं चिनुत। राज्ञ: भोजस्य राज्ये दुर्मुख: नामक: एक चौर: निवसति स्म। किन्तु अधिकतरं स: चौर्यं कर्तुं न पारितवान् । अनेन दु:खी स: प्रतिवेशि-राज्ये प्रवेष्टुं रात्रौ प्रचलित:। मध्ये एकं साध्वाश्रम प्राप्य तत्र एवं स्थित:। साधु: तस्य भव्यं आतिथ्यं कृतवान् । अनेन प्रसन्न: स: चौर: प्रात: तं प्रणम्य तां विद्यां शिक्षयितुं प्रार्थयत, यया स: भव्यां भोग-सामग्रीं निष्पादितवान् । साधु: तथा प्रतिज्ञातवान् तम् उपदिष्टवान् च - ‘‘त्वं कम् अपि व्यवसायं कुर्या:, किन्तु असत्यं कदापि न वदे:, न च यस्य अन्नं भक्षये: तं हानिं प्रापये:।’’ चौर: तथा स्वीकृत्य राज्ञ: भोजस्य एव प्रासादे चौर्यं कर्तुं तत: परावृत्त:। अर्द्धरात्रौ स: सामन्त-वेशं धृत्वा राज-प्रासादं प्रविष्ट:। प्रहरिणा पृष्ट: स: आत्मानं चौरम् एव पर्यचाययत् । किन्तु प्रहरी तथा न विश्वस्य तं प्रवेशात् नैव निवारितवान् । निर्बाधं चौर: भोजस्य शयन-कक्षे प्रविष्ट:। तदा भोज: नगरी-सुरक्षा-व्यवस्थां द्रष्टुं निर्गत: आसीत् चौर: सर्वां स्वाभीष्टां सामग्रीं सङ्कलितां कृत्वा चलितुम् एव उद्यत: अभवत् यत् तत्र एकस्मिन् पात्रे रक्षिते मिष्टान्ने तस्य दृष्टि: न्यपतत् । स: तद् भक्षितवान् । भक्षणोत्तर तस्य स्मृतौ साधो: वाक्यम् आयातं यत् - ‘यस्य अन्नं भक्षये: तं हानिं न प्रापये:।’ चौर: सर्वां सामग्रीं तत्र एव परित्यज्य रिक्त-हस्त: तत: निर्गत:। पश्चात् परावृत्त: भोज: कक्षे इदं दुर्दृश्यं दृष्टवान्, तदा प्रात: ‘दुर्मुखस्य एव इदं कृत्यं स्यात्’ इति अनुमाय तम् आहूतवान् । राज्ञा पृष्ट: च स: सर्वं सत्यम् अकथयत्। अनेन सन्तुष्ट: राजा तं भूरि भूरि प्रशंसितवान् , स्वकीये रक्षा-विभागे च नियुक्तवान् । इदानीं दुर्मुख: अपि सुमुख: भूत्वा चौर्य-कर्म पर्यत्यजत् इति। दुर्मुख: कस्य राज्ये निवसति स्म?