search
Q: निर्देश:–अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (338- 345) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चिनुत- ग्रामे आसीत् कश्चन दुर्बलकाय:। शरीर-शक्तिहीनताकारणत: स: भृतिकार्यं न प्राप्नोति स्म। स: देवं प्रार्थितवान् - ‘‘भगवन् ! मम उदरपूरणाय काञ्चित् व्यवस्थां परिकल्पयतु कृपया’’ इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् - ‘‘शिलानोदनं कुरु’’ इति। तस्य गृहस्य समीपे काचित् महाशिला आसीत्। स: निर्धन: तस्या: नोदनम् आरब्धवान् । शिला तु महाकारा आसीत् । अत: स: तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवत: आदेशं पालयितुम् इच्छन् स: स्वस्य प्रयत्नं न परित्यक्तवान् । एवमेव कानिचन दिनानि गतानि। जना: तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्त: ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान् । एतस्या: नोदने प्रवृत्त: भवान् मूर्ख: एव’ इति। एतत् श्रुत्वा अपि निर्धन: स्वस्य प्रयत्नं तु न परित्यक्तवान् । एवमेव मासत्रयम् अतीतम् । तदीय: शिलानोदनप्रयत्न: तु व्यर्थ: एव आसीत् । अत: स: नितरां खिन्न:। स्वस्य दौर्भाभ्यं स्मरन् एकदा स: निद्राम् अकरोत् । तस्य स्वप्ने देव: पुन: प्रत्यक्ष: अभवत् । तं दृष्ट्वा स: निर्धन: - ‘‘देव! व्यर्थकार्ये भवता अहं योजित:। तत् कृतवता मया उपहासपात्रता प्राप्ता’’ इति अवदत् । तदा देव: उक्तवान् - ‘‘भो: ! भवत: परिश्रम: व्यर्थ: न। अत: अलं चिन्तया।’’ तदा क्रुद्ध: निर्धन: अवदत् - ‘‘मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम् । किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृत: प्रायस: किं व्यर्थ: न ?’’ इति। ‘‘सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत इति तु सत्यम् । किन्तु मासत्रयं यावत् भवता य: नोदनप्रयास: कृत: तत: भवत: हस्तौ, पादौ, स्नायवश्च शक्तियुक्ता: जाता:। भवता दृढकायता प्राप्ता। अत: यत्किमपि कार्यं कर्तुं समर्थ: भवान् । मया एतदेव इष्टं, न तु शिलाया: अपसारणम्’’ इति अवदत् भगवान् । अलं चिन्तया इति वाक्यस्य अभिप्राय: ––––
  • A. चिन्तां कुरु
  • B. व्यर्थचिन्तां कुरु
  • C. चिन्ता अलङ्कारसदृशी अस्ति
  • D. चिन्तां न कुरु
Correct Answer: Option D - अलं चिन्तया इति वाक्यस्य अभिप्राय: ‘चिन्ता न कुरु’ अलं का प्रयोग निषेधात्मक अर्थ में किया जाता है। ‘चिन्ता न कुरु’ का अर्थ है चिन्ता मत करो।
D. अलं चिन्तया इति वाक्यस्य अभिप्राय: ‘चिन्ता न कुरु’ अलं का प्रयोग निषेधात्मक अर्थ में किया जाता है। ‘चिन्ता न कुरु’ का अर्थ है चिन्ता मत करो।

Explanations:

अलं चिन्तया इति वाक्यस्य अभिप्राय: ‘चिन्ता न कुरु’ अलं का प्रयोग निषेधात्मक अर्थ में किया जाता है। ‘चिन्ता न कुरु’ का अर्थ है चिन्ता मत करो।