Q: निर्देश:–अधोलिखितं गद्यांशं पठित्वा 111-115 प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत – स्त्रीणां कृते शिक्षाया: महती आवश्यकता एतस्मात् कारणात् वर्तते यत् ता एव समये प्राप्ते मातरो भवन्ति । यथा मातरो भवन्ति , तथैव सन्ततिर्भवति। यदि मातरोऽशिक्षिता: विद्याशून्या: कर्तव्यज्ञानहीनाश्च सन्ति, तर्हि पुत्रा: पुत्र्यश्च तथैवाविद्याग्रस्ता: कुशलतारहिताश्च भविष्यन्ति। यदि नार्य: शिक्षिता: सन्ति, तर्हि ता: स्वपुत्राणां पालनं रक्षणं शिक्षणादिकं च सम्यक्तया करिष्यन्ति, एवं तासां सन्तति: विद्यायुक्ता हृष्टा पुष्टा सद्गुणोपेता च भविष्यति। अतएव महानिर्वाण तन्त्रेऽप्युक्तमस्ति ‘‘कन्याऽप्येवं लालनीया शिक्षणीया प्रयत्नत:’’ विवाहे संजाते कन्या: गृहस्थाश्रमं प्रविशन्ति। यदि पुरुषो विद्वान् स्त्री च विद्याशून्या भवति तर्हि दाम्पत्यजीवनं सुखकरं न भवति। विद्यायाभावात् स्त्री स्वकीयं कर्तव्यं न जानाति, अतएव बहवो रोगा व्याधयश्च तत्र स्थानं कुर्वन्ति । अत: स्त्रीणामपि शिक्षा पुत्राणां शिक्षावदेष आवश्यकी वर्तते। स्त्रियो मातृशक्ते: प्रतीकभूता: सन्ति, अतस्तासां सदा सम्मान: करणीय:। यस्मिन् देशे समाजे च स्त्रीणामादरो भवति, स देश: समाजश्चोन्निंत प्राप्नुत:। उक्तं च मनुना – ‘‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता:’’।। ‘‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता’’ – केन उक्तमस्ति?
A.
नारदेन
B.
याज्ञवल्क्येन
C.
मनुना
D.
उपर्युक्तेषु एकस्मात् अधिकम्
E.
उपर्युक्तेषु कश्चन अपि नास्ति
Correct Answer:
Option C - ‘‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता’’ इति कथनं मनुना उक्तम् अस्ति । इस कथन को मनु ने कहा है। अत: स्त्री का समाज को आदर करना चाहिए।
C. ‘‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता’’ इति कथनं मनुना उक्तम् अस्ति । इस कथन को मनु ने कहा है। अत: स्त्री का समाज को आदर करना चाहिए।
Explanations:
‘‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता’’ इति कथनं मनुना उक्तम् अस्ति । इस कथन को मनु ने कहा है। अत: स्त्री का समाज को आदर करना चाहिए।
Download Our App
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit.
Excepturi, esse.
YOU ARE NOT LOGIN
Unlocking possibilities: Login required for a world of personalized
experiences.