search
Q: निर्देश (106-113) :- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत। अस्माकं भारतवर्ष: अतीव विशाल: अस्ति। अत्र बहव: गिरय: सन्ति। ते गिरय: मेघकलापं धृत्वा वृष्टिं सम्पादयन्ति। तेन अनेका: नद्य: प्रवहन्ति। तासु नदीषु महानदी, गोदावरी, कावेरी, कृष्णा च पूर्वसमुद्रं प्रति प्रवहन्ति। इतरा: साबरमती, ताप्ती, नर्मदा च पश्चिमसमुद्रं प्रति प्रवहन्ति। काश्चन यथा भागीरथी, कालिंदी, गण्डकी कौशिकी च हिमालयशिखरेभ्य: प्रभवन्ति। पुरा सरस्वती अपि पश्चिम समुद्राभिमुखम् एव प्रवहति स्म, परन्तु अद्य अस्या: चिह्नानि एव यत्र तत्र प्रवाहमार्गे प्राप्यन्ते। अन्यासां नदीनां मध्ये भारतस्य मध्यप्रान्ते चर्मण्वती वेत्रवती च नद्यौ प्रसिद्धे स्त:। पुराणकालात् आरभ्य सर्वे भारतीया: नदीनां सम्मानं कुर्वन्ति। क्षेत्रेषु सलिलसेचनेन नद्यपि मातेव भवति। अतएव यानि क्षेत्राणि नदीजलेन प्लावितानि तानि नदीमातृकाणीति प्रसिद्धं यानि च वृष्टिजलेन सिक्तानि तानि देवमातृकाणि इति। वर्षाकालेन वृष्टिपातेन नद्या: जलेन च कृषिक्षेत्राणि प्लावितानि भवन्ति। कृषका: कृषिकार्यं कृत्वा अन्नोत्पादनं कुर्वन्ति। नदीषु विविधा: मत्स्या: निवसन्ति। येषु प्रदेशेषु अनावृष्टि कारणेन जलाभावात् कृषि: न भवति तत्र शासनाधिकारिण: नद्या: जलं प्रतिरुध्य सेतुं बध्नाति। महाजलाशयान् निर्माय जलसञ्चनं कुर्वन्ति। तेभ्य: जलाशयेभ्य: क्षेत्रेषु जलं वितरन्ति। साम्प्रतं महानगरे नद्या: जलमेव प्रतिगृहं सर्वकारेण: सम्प्रेष्यते। नद्यां बन्धं निर्माय तस्मात् विद्युतम् उत्पादयन्ति। एषा जलमूला विद्युत ‘हाइड्रोइलेक्ट्रिकपावर’ इति नाम्ना प्रसिद्धा। पश्यत, नद्य: देशस्य कीदृशमुपकारं कुर्वन्ति। अतएव जना: ता: पूजयन्ति। स्वस्वगृहेषु अधुनाऽपि जना: स्नानसमये सर्वासां नदीनां सान्निध्यं स्नानजलं प्रार्थयन्ते। भारतस्य मध्यप्रान्ते के नद्यौ प्रसिद्धे स्त:?
  • A. ताप्ती नर्मदा च
  • B. चर्मण्वती वेत्रवती च
  • C. कालिन्दी गण्डकी च
  • D. कृष्णा साबरमती च
Correct Answer: Option B - भारतस्य मध्यप्रान्ते चर्मण्वती वेत्रवती नद्यौ प्रसिद्ध स्त:। अर्थात् भारत के मध्यप्रान्त में चर्मण्वती और वेत्रवती नदियाँ प्रसिद्ध हैं। प्राचीन काल के आरम्भ से सभी भारतीय नदियों का सम्मान करते आये हैं।
B. भारतस्य मध्यप्रान्ते चर्मण्वती वेत्रवती नद्यौ प्रसिद्ध स्त:। अर्थात् भारत के मध्यप्रान्त में चर्मण्वती और वेत्रवती नदियाँ प्रसिद्ध हैं। प्राचीन काल के आरम्भ से सभी भारतीय नदियों का सम्मान करते आये हैं।

Explanations:

भारतस्य मध्यप्रान्ते चर्मण्वती वेत्रवती नद्यौ प्रसिद्ध स्त:। अर्थात् भारत के मध्यप्रान्त में चर्मण्वती और वेत्रवती नदियाँ प्रसिद्ध हैं। प्राचीन काल के आरम्भ से सभी भारतीय नदियों का सम्मान करते आये हैं।