Q: निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानाम् (129-135) उत्तराणि उचितं विकल्पं चित्वा देयानि। आदिगुरो: शंकराचार्यस्य जन्म केरलप्रान्ते कालडीनामके ग्रामे अभवत्। अस्य पितु: नाम शिवगुरु: आसीत्। अस्य जन्मन: प्रागेव स: दिवंगत:। माता आर्याम्बा एवास्य पालनमकरोत्। जन्मादैव प्रतिभासम्पन्नतया स कुलोचिता: विद्या: शीघ्रमेव अधीतवान्। मनसा, वचसा कर्मणा च विरक्त: शंकर : मातरं संन्यासस्यानुमतिम् अयाचत्। पुत्रस्नेहपरवशा सा शंकरस्य इमां प्रार्थनां न स्वीकृतवती। एकदा शंकर : नद्यां स्नातुं गत:। तत्र नेक्रेण गृहीत: स उच्चै: आक्रोशत्। आक्रोशं श्रुत्वा माता नदीतीर गता पुत्रं च नक्रेण गृहीतम् अपश्यत्। शंकर: अवदत् - ‘‘अम्ब! यदि संन्यासं ग्रहीतुं मामनुमंस्यसे तर्हि अहं नक्रात् मुक्तो अनिच्छन्त्यपि माता - ‘‘वत्स यथा तुभ्यं रोचते तथा कुरु’’ इति कष्टेनाकथयत्। एतच्छ्रुत्वा शंकर: नक्रात् नद्या: बहिर्निर्गत्य मातु: चरणयो: प्रणामं कृत्वा स: अवदत्, ‘‘मात:! यद्यपि सायं तथापि यदैव त्वं मां स्मरिष्यसि तदैव उपस्थितो भविष्यामि।’’ एवं निरगच्छत्। अथ परिव्राजकै : सह देशाद्देशं पर्यटन् शंकर: काश्यां गोविन्दपादाचार्येभ्य: वेदान्तविद्यामधीतवान्। अनन्तरं मुख्यानाम् उपनिषदाम् ब्रह्मसूत्राणां श्रीमद्भगवदगीतायाश्च भाष्याणि अरचयत्। अनेन विरचितानि बहूनि स्तोत्रकाव्यन्यापि सन्ति येषु भजगोविन्दस्तोत्रम् अतीव लोकप्रियमस्ति। एवं मन्यते यत् मरणासन्ना माता यदैवास्य स्मरणं अकरोत् तदैवायं तत्समीपं आगच्छत्। दिवंगतायां मातारि संन्यस्तोऽपि स: पुत्रोचितं सर्वं कृत्यं सम्पादितवान्। तत: सर्वत: परिभ्रमन् स जनेभ्य: अद्वैतवेदान्तसिद्धान्तस्य ज्ञानमुपदिष्टवान्। अस्मिन्नेव प्रचारक्रमे स द्वाारिकायां, बदर्यां, जगन्नाथपुर्यां, शृङ्गेर्यां च चतुर: मठान् समस्थापयत्। अन्ते च द्वात्रिंशे एव वयसि ब्रह्मभावम् उपगत:। ‘उपदिष्टवान्’ अस्मिन् पदे क: प्रत्यय:?
A.
क्तवतु
B.
वतुप्
C.
वति
D.
तव्य:
Correct Answer:
Option A - ‘उपदिष्टवान्’ अस्मिन् पदे ‘क्तवतु’ प्रत्यय: अस्ति। अर्थात् ‘उपदिष्टवान्’ इस पद में ‘क्तवतु’ प्रत्यय है। अतएव समुचित विकल्प (a) है।
A. ‘उपदिष्टवान्’ अस्मिन् पदे ‘क्तवतु’ प्रत्यय: अस्ति। अर्थात् ‘उपदिष्टवान्’ इस पद में ‘क्तवतु’ प्रत्यय है। अतएव समुचित विकल्प (a) है।
Explanations:
‘उपदिष्टवान्’ अस्मिन् पदे ‘क्तवतु’ प्रत्यय: अस्ति। अर्थात् ‘उपदिष्टवान्’ इस पद में ‘क्तवतु’ प्रत्यय है। अतएव समुचित विकल्प (a) है।
Download Our App
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit.
Excepturi, esse.
YOU ARE NOT LOGIN
Unlocking possibilities: Login required for a world of personalized
experiences.