search
Q: निम्नलिखितं गद्यांशं पठित्वा नवप्रश्नानाम् (91-99) उत्तराणि यथोचितं विकल्पं चित्वा देयानि- संस्कृतभाषा भारतवर्षस्य संस्कारभाषा। भारते संस्कृत-भाषाया: प्रतिदिनं विविधसंस्कारकार्येषु प्रयोग: भवति। एतस्या: अनेकासु विशेषतासु इयम् अन्यतमा विशेषता यत् अस्या: वाङ्मये विद्यमाना: सूक्तय: अभ्युदयाय प्रेरयन्ति। अत एव वयं भारत-प्रशासनस्य विभिन्नेषु विभागेषु ध्येय-वाक्य-रूपेण एतेषां प्रयोगं पश्याम:। एतत् चित्रं पश्यत। एतत् भारतशासनस्य राजचिह्नमस्ति। अध: ‘सत्यमेव जयते’ इत्येष: संस्कृतपद्यांश: लिखित: अस्ति। भारतशासनस्य मुद्रायामङ्कितामिदं संस्कृतस्य महत्वमुद्भावयति। जीवनबीमानिगमस्य चित्रे द्वयो: हस्तयो: मध्ये एक: दीप: अस्ति। अध: च ‘योगक्षेमं वहाम्यहम्’ इति लिखितम्। श्रीमद्भगवद्गीताया: अयं पद्यांश: अस्य शोभां द्विगुणयति। भारतीयवायुसेनाया: चिह्ने विमानं वर्तते। तत्र लिखितं वायुसेनाया: ध्येयवाक्यम् ‘नभ:-स्पृशं दीप्तम्’ संस्कृत-भाषाया: गौरवगाथां प्रकटयति। हरियाणा-शासनस्य राज्यचिह्नस्य चित्रे अपि श्रीमद्भगवद्गीताया: ‘योग: कर्मसु कौशलम्’ इत्ययं श्लोकांश जनान् प्रेरयति। लोकसभाध्यक्षस्य आसनस्योपरि अपि सर्वोच्चस्थाने उल्लिखिता अस्ति-‘धर्मचक्र-प्रवर्तनाय’ इति संस्कृतवाक्यम्। लोकसभाया: केन्द्रीयसभातलस्य भित्तिकायां ‘अयं निज: परो वेति’ सुप्रसिद्ध: संस्कृत-श्लोकं लिखितं अस्ति। डाक-तार-विभागस्य ध्येयवाक्यम्-‘अहर्निशं सेवामहे’ अतीव उपयुक्तमस्ति। यत: अस्य विभागस्य कार्यं दिने रात्रौ च निरन्तरं चलति। पश्यत्, इदं ‘राष्ट्रीयशैक्षिकानुसन्धानप्रशिक्षण-परिषद्’ इत्यस्य ध्येय-वाक्यं ‘विद्ययाऽमृतमश्नुते’ संस्कृतभाषायाम् एव अस्ति। अन्ये चापि बहव: भारतशासनस्य विभागा: सन्ति येषु संस्कृतध्येय-वाक्यानि स्वीकृतानि सन्ति। अलमतिविस्तरेण। एतेन सुस्पष्टं भवति यत् संस्कृतभाषा भारतस्य जीवनभूता। भारते भाति भारती। ‘वहाम्यहम्’ इत्यस्मिन् पदे क: सन्धि:?
  • A. गुणसन्धि:
  • B. अयादिसन्धि:
  • C. यण्सन्धि:
  • D. दीर्घसन्धि:
Correct Answer: Option C - ‘वहाम्यहम्’ इत्यस्मिन् पदे ‘यण्सन्धि:’ अस्ति। अर्थात् ‘वहाम्यहम्’ इस पद में यण् सन्धि है। विच्छेद - वहामि + अहम् - ‘इकोयणचि’ सूत्र से यण् इको य् होकर ‘वहाम् + य् + अहम्’ वर्ण - सम्मेलित करके = वहाम्यहम् ।
C. ‘वहाम्यहम्’ इत्यस्मिन् पदे ‘यण्सन्धि:’ अस्ति। अर्थात् ‘वहाम्यहम्’ इस पद में यण् सन्धि है। विच्छेद - वहामि + अहम् - ‘इकोयणचि’ सूत्र से यण् इको य् होकर ‘वहाम् + य् + अहम्’ वर्ण - सम्मेलित करके = वहाम्यहम् ।

Explanations:

‘वहाम्यहम्’ इत्यस्मिन् पदे ‘यण्सन्धि:’ अस्ति। अर्थात् ‘वहाम्यहम्’ इस पद में यण् सन्धि है। विच्छेद - वहामि + अहम् - ‘इकोयणचि’ सूत्र से यण् इको य् होकर ‘वहाम् + य् + अहम्’ वर्ण - सम्मेलित करके = वहाम्यहम् ।