search
Q: कस्मिश्चिन्नगरे मन्थरको नाम तन्तुवाय: प्रतिवसति स्म। कदाचित् तस्य सर्वाणि उपकराणि भग्नानि। तत: कुठारमादाय स: काष्ठार्थं वनं गत:। वने एकं शिंशपापादपं अपश्यत्। स: चिन्तितवान् - महानयं वृक्ष: दृश्यते। तदनेन कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति। इति विचार्य स: तस्योपरि कुठारम् उत्क्षिप्तवान्। तस्मिन् वृक्षे कश्चित् यक्ष: समाश्रित आसीत्। स: तं तन्तुवायम् उक्तवान् - भो:! अयं पादप: मम आश्रय: भवति। तस्मादयं सर्वथा रक्षणीय:। यतोऽहमत्र सौख्येन तिष्ठामि। तदाकण्यं तन्तुवाय: आह-भो:! अहं किं करोमि। काष्ठसामग्रीं विना मे कुटुम्ब: बुभुक्षया पीड्यते। तस्मात्त्वम् अन्यत्र गम्यताम्। अहम् एनं कर्तिष्यामि। यक्ष आह- भो: ! अहं तुष्टोऽस्मि। तत्प्राथ्यंतामभीष्टम् एनं पादपं च रक्ष। तदा तन्तुवाय: अवदत् - इदानीं स्वगृहं गत्वा स्वमित्रं स्वभार्याम् च पृष्ट्वा आगमिष्यामि। यक्ष: अनुमतिं दत्तवान्। 3. भोः! अहं तुष्टोऽस्मि इति कः अवदत् ?
  • A. यक्षमित्रम्
  • B. यक्षपत्नी
  • C. तन्तुवाय:
  • D. यक्ष:
Correct Answer: Option D - भो:! अहं तुष्टोऽस्मि इति ‘यक्ष:’ अवदत्। अरे! मैं सन्तुष्ट हूँ ऐसा यक्ष ने बोला। इस कथन का वर्णन उपरोक्त गद्यांश में है- यक्ष आह- भो: ! अहं तुष्टोऽस्मि।
D. भो:! अहं तुष्टोऽस्मि इति ‘यक्ष:’ अवदत्। अरे! मैं सन्तुष्ट हूँ ऐसा यक्ष ने बोला। इस कथन का वर्णन उपरोक्त गद्यांश में है- यक्ष आह- भो: ! अहं तुष्टोऽस्मि।

Explanations:

भो:! अहं तुष्टोऽस्मि इति ‘यक्ष:’ अवदत्। अरे! मैं सन्तुष्ट हूँ ऐसा यक्ष ने बोला। इस कथन का वर्णन उपरोक्त गद्यांश में है- यक्ष आह- भो: ! अहं तुष्टोऽस्मि।