search
Q: अन्नदानात्परं दानं विद्यादानमत: परम् अन्नेन क्षणिका तृप्ति: यावज्जीवं च विद्यया ।। 1 ।। पुस्तकस्था तु या विद्या परहस्तगतं धनम्। कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ।। 2 ।। अधमा धनमिच्छन्ति धनमानौ च मध्यमा:। उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ।। 3 ।। साक्षरं पुरुषं दृष्ट्वा यो नरो नाभिमन्यते। बलीवर्दसमो लोके खुरशृंगविवर्जित: ।। 4 ।। वृथावृष्टि: समुद्रेषु वृथा तृप्तस्य भोजनम्। वृथा दानं समर्थस्य वृथा दीपो दिवापि च ।। 5 ।। यस्मिन् देशे न सम्मानो न प्रीतिर्न च बान्धवा:। न च विद्यागम: कश्चित् न तत्र दिवसं वसेत् ।। 6।। 1. ‘सागरेषु’ इति पदस्य पर्यायपदं श्लोके प्रयुक्तम् । तच्चित्वा लिखत-
  • A. विहगेषु
  • B. सिंहेषु
  • C. समुद्रेषु
  • D. अरण्येषु
Correct Answer: Option C - ‘सागरेषु’ इति पदस्य पर्यायपदं श्लोके ‘समुद्रेषु’ प्रयुक्तम् अर्थात् ‘सागरेषु’ इस पद के स्थान पर उसका पर्याय शब्द ‘समुद्रेषु’ पद प्रयुक्त है।
C. ‘सागरेषु’ इति पदस्य पर्यायपदं श्लोके ‘समुद्रेषु’ प्रयुक्तम् अर्थात् ‘सागरेषु’ इस पद के स्थान पर उसका पर्याय शब्द ‘समुद्रेषु’ पद प्रयुक्त है।

Explanations:

‘सागरेषु’ इति पदस्य पर्यायपदं श्लोके ‘समुद्रेषु’ प्रयुक्तम् अर्थात् ‘सागरेषु’ इस पद के स्थान पर उसका पर्याय शब्द ‘समुद्रेषु’ पद प्रयुक्त है।