8
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: समीचीनमुत्तरं चिनुत- अपदेशेन केनचित् प्रमुदितचेतसां ग्रामीणानामेकत्र सम्पात: ग्रामोत्सवो जायते। कदाचित् कस्याश्चिद् ग्रामाधिदेवताया गुणानुवर्णनाय, कदाचित् कदाचि कस्यचिद् वीरप्रवरस्य यश:कीर्तनाय, कदाचित् कस्यचित् साधो: दर्शनायोपदेशहग्रहणाय च, कदाचित् कस्यचिद् महापुरुषस्य चरित्रोपवर्णनाय ग्रामीणा एकत्र सम्मिलन्ति। यथा यथा चायमुत्सव: समीपमागच्छति तथा तथा लोकानामौत्सुक्यं वर्धते। उत्सवदिने पुरुषा उज्ज्वलवस्त्राणि परिधाय नारीभि: सह मोदमाना प्रहृष्टा: गृहेभ्य: निष्क्रामन्त उच्चावचैराक्रन्दै: हृदयोल्लासं प्रकटयन्ति। उत्सवेऽस्मिन् आपूपिका मौदकिका अन्ये च मिष्टान्नविक्रेतार: अपूपान् मोदकान् अन्यानि च मिष्टान्नानि सम्पाद्य आगन्तुकान् प्रलोभयन्ति। येऽपि आपणिका: लवणमयानि चणकचूर्णादीनि खाद्यज्ञानानि विक्रीणते तेभ्योऽपि बहवो ग्रामीणा: क्रेतुं समायान्ति। इत्थं ग्रामोत्सवे चिन्ताविरहितानां ग्रामीणानां खादमोदोल्लास: आविर्भवति। अत्रोत्सवे अनेकत्र बालविनोदाय मण्डलपरिवर्तीनि प्रेङ्गणानि विद्यन्ते, येषु बाला: पौन: पुन्येनारुहृया न तृप्यन्ति। क्वाचिदैन्द्रजालिका: प्रेक्षकाणां कुतूहलमुत्पादयन्ति, क्वाचिदाहितुण्डिका आश्चर्यकरी: खेला: प्रदर्श्य धनमर्जयन्ति, क्वाचित् कितवा: ग्रामीणान् प्रतारयितुं द्यूतमाचरन्ति। अत्र दीव्यन्तो मूर्खा ग्रामीणा यन्त्रार्जितं चिरसंचित धनं क्षणेनैव हापयन्ति। सुरापायिनश्चापानमुपेत्य सुरां पीत्वा मत्ता: स्खलद्गतय: कथं कथमपि स्वान् ग्रामान् प्रयान्ति। इत्थमस्तं जिगमिषति सूर्ये मेलको भवति समाप्त:। प्रमुदितचेतसो जना: त्वरया गृहान् यान्ति। गृहं गतास्ते मोदमाना: स्वानुभवानुकूलं परस्परं सम्भाषन्ते। यत्नार्जितस्य धनस्य मूर्खा जना: किं कुर्वन्ति?