6
निम्नलिखितं गद्यांशं पठित्वा अष्टप्रश्नानां (121-128 ) उत्तराणि विकल्पेभ्य: चित्वा दीयन्ताम्। एकस्मिन् अरण्ये कश्चन सिंह: प्रतिवसति स्म। एकदा स: सुप्त: आसीत्। तदा एक: मूषक: तस्य केसरान् अकृन्तत्। प्रबुद्ध: सिंह: स्वकेसरान् छिन्नान् अपश्यत्। स: अचिन्तयत् - ‘‘अहो, मम केसरा: कृन्ता:। नूनंं मूषकस्य कार्यमेतत्।’’ किं करवाणि? भवतु, एवं करिष्यामि। मार्जार: मूषकस्य शत्रु: अत: कमपि मार्जारं पालयामि। स: मूषकं भक्षयिष्यति’’ इति। स: सिंह : ग्राममगच्छत्। मार्गे कमपि मार्जारमपश्यत्। तस्य समीपं गत्वा सिंह: एवमवदत् - ‘‘भो मित्र मार्जार, मम गृहे कश्चन मूषक: प्रतिवसति। स: सुप्तस्य मम केसरान् कृन्तति, एतं निवारय। त्वं मया सह वस। अहं ते प्रभूतमाहार दास्यामि’’ इति। मार्जार: अकथयत्- ‘‘यथा आदिशति भवान्। अहं त्वया सह वत्स्यामि।’’ सिंह: मार्जारेण सह गुहामगच्छत् । तदा मार्जार:- ‘मित्र, अहं क्षुधया पीडित: अस्मि। मह्यमाहारं प्रयच्छ’ इत्यकथयत् । सिंह: तस्मै मांसादिकमयच्छत। एवं मार्जार: तत्र सुखमवसत् । मूषक: मार्जारात् भीत: बिलाद् बहि: नागच्छत् । अत: सिंह मूषकाद् भयं विना सुखेन - कालमनयत् । मूषक: बिलस्यान्त: आहारं विना क्षीण: अभवत् । क्षुधया स: अचिन्तयत् - ‘किं करवाणि?’ आहारं विना कथं जीवामि। यदि बिलाद् बहि: गच्छामि तर्हि मार्जार: मां पश्यति। अत: अन्धकारे बहि: गत्वा आहारमन्विष्यामि’ इति। मूषक: रात्रौ बिलाद् निरगच्छत् । मार्जार: तमपश्यत् । सद्य: तं गृहीत्वा सिंहमवदत् - ‘‘भो मृगराज, पश्य तव शत्रु: अयं गृहीत:। अलमिदानीं चिन्तया। आवां सुखेन वसाव:’’ इत्युक्तवा खादति स्म। सिंह: अचिन्यत् - ‘इदानीमनेन मार्जारेण न मे प्रयोजनम् । अत: परमस्मै भोजनं न दास्यामि’ इति। तत: परं सिंह: मार्जारायाहारं नायच्छत् । एकदा क्षुधया पीडित: मार्जार: सिंहमकथयत् – ‘‘मित्र, भवान् स्ववचनं स्मरतु। मह्यमाहारं प्रयच्छतु’’ इति। सिंह: ‘‘मूर्ख, त्वया न में प्रयोजनम्। गच्छ यथेष्टम्। न किञ्चिदपि स्मरामि’’। मार्जार: – ‘‘एवम्। अस्तु। कृतघ्न, महत्पापं करोषि यत्स्वयमेव कृतां प्रतिज्ञां विस्मरसि’’। तदाकण्य क्रुद्ध : सिंह: मार्जारं हन्तुमुद्युत:। भीत: मार्जार: वृक्षामारुह्य अवदत्- विश्वासो नैव कर्तव्यो मधुरासु खलोक्तिषु। ‘अहं ते प्रभूतमाहारं दास्यामि’ गद्यांशे कथनमिदं कस्य अस्ति?