4
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: समीचीनमुत्तरं चिनुत। जननीमिव गरीयसीं गुरुतरां स्वमातृभूमिमयोध्यां प्रति लज्रत: प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्ति: साकल्येनात्र उद्ध्रियते– ‘अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते। जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।’ इति । जननी जन्मभूमिश्चेत्युभे सम्मानार्हे पूज्ये चेत्यस्या संक्षेपेणाभिप्राय:। कस्याविदितं तत्थ्यमेतद्यद् जन्मदातृत्वात् , सुतसंवर्धकत्वाच्च कारुण्यमूर्तिर्माता स्वसन्ततीनां जीवनसर्वस्वम्। तत एव श्रुति: - ‘‘मातृदेवो भव’’ ‘‘मातृमान् पुरुषो वेद’’ इत्यादिभिर वचनैर् मातुर् गौरवं स्पुâटम् । महर्षिणा मनुना स्वकीये धर्मशास्त्रे मनुस्मृतौ मातुर् गौरवम् इत्थं प्रतिपादतमस्ति - ‘‘माता पृथिव्या मूर्तिस्तु’’ (मनुस्मृति 2.226) ‘‘माता गुरुतरा भूमेर्माता परं दैवतम्’’ इत्यादीन्यपि वचनानि जनन्या: सर्वातिशयित्वं प्रतिपादयन्ति। मातुर् महत्त्वातिशयस्य कारणेषु विचार्यमाणेषु तथ्यमेतत् पुर आयाति यन्माता ममत्वमूर्ति:, करूणामूर्ति:, क्षमामूर्तिश्च। या स्वकीयैर् दया-क्षमा-स्नेहशील-माधुर्य-ममत्व-आदिगुणैर् भुवि दिवि अन्येषु च लोकेषु सर्वान् अतिशेते प्राणिन: । जन्मभूमिर् जनान् जनयन्ती स्वाङ्के धारयन्ती, शस्यादिभि: पोषयन्ती,। स्व-जल-फल-वायु-आदिभिश्च पालयन्ती। अत एव जन्मभूमिर् अपि मातेव जनानां मान्या, पूज्या, सम्मानार्हा च। अथर्ववेदस्य पृथिवीसूक्ते (12-1) मातृभूमे गुणा: विस्तरेण वर्णिता: सन्ति। यथा - ‘‘माता भूमि: पुत्रोऽहं पृथिव्या:’’ (12-1-12) भूमे मातर् निधेहि मा भद्रया सुप्रतिष्ठिम् । संविदाना दिवा कवे श्रिया मा धेहि भूत्याम् ।। (12.1.63) वयं तुभ्यं बलिहृता: स्याम् (12.1.62) इत्यादिभिर् वचनैर् वेदेषु मातृभूमेर् महिमा वर्णिता। मातृभूमेर् अनेनैव गौरवेण आकृष्टा महान्त: पुरुषास् तस्य सम्मानस्य रक्षार्थम् आत्मनो बलिदानं कृत्वा स्वजन्म धन्यं कुर्वन्ति। अस्माकम् सम्पूर्ण: इतिहास:-ईदृशानां हुतात्मानां गौरवमय्या गाथया परिपूणोऽस्ति। स्वमातृ भूमे: कृते महाराणा प्रतापसिंहस्य-आत्माहुतिं को न जानाति? को न जानाति क्षत्रपतिना शिवाजीमहाराजेन स्वमातृभूमि-उद्धाराय कृतं दीर्घकालिकं सङ्घर्षम् ? प्रथमे स्वतन्त्रतासङ्ग्रामे स्वदेशस्य दासतापाशादुद्धारकर्तुम् बद्धपरिकरैर् नानाफड़नवीस - मङ्गलपाण्डेय- राज्ञीलक्ष्मीबाईप्रभृतिभि: कृता शौर्यमयी आत्माहुतिस्तु समेषां भारतीयानां विदितचरैव। को न जानाति क्रान्तिकारिणां वीरपुङ्गवानां भगतसिंह-चन्द्रशेखरआजाद-रामप्रसादबिस्मिल-खुदीरामबोस-रासबिहारीघोष-अशफाकउल्लाखाँ - प्रभृतीनां पावनानि पुण्यमयानि चरितानि ? को वाऽपरिचितो महर्षिदयानन्द-विवेकानन्द-बालगङ्गााधरतिलक-गोपाकृष्णगोखले-लालालाजपतराय-मदनमोहनमालवीय-महात्मागान्धि-जवाहरलाल नेहरू-सुभाषचन्द्रबोस - वल्लभभाईपटेल- राजेन्द्रप्रसादप्रभृतीनां पुण्यनामभिर् यै मातृभूमिसेवेपरायणैर गृहीतदेशसेवाव्रतैर महाजनैस् तत्कृते का का विपदो नानुभूता? ऐते महापुरुषा: स्वजन्मभूमे: सर्वमृणं शोधयित्वा इदानीं राष्ट्रदेवालयस्य दृढस्तम्भा इव राजन्ते। माता पृथिव्या मूर्तिस्तु’’ इति कस्य कथनमस्ति?