7
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: समीचीनमुत्तरं चिनुत। वेदा: समस्तानां सत्यविद्यानां ग्रन्था: सन्ति। वेदेषु या या विद्या: सन्ति ता: सर्वा: सार्वभौमिका:, सार्वजनिका:, सार्वदेशिका:, सार्वकालिकाश्च सन्ति। वेदेषु सूत्ररूपेण अखिलस्यापि ज्ञानविज्ञानस्य उल्लेखो वर्तते। भारतीयज्ञानपरम्परानुसारेण सर्गादौ परमकारुणिकेनेश्वरेण सर्वोपकारार्थं ऋग्वेद-यजुर्वेद-सामवेद-अथर्ववेदानां च ज्ञानं क्रमश: अग्नि-वायु-आदित्य-अङ्गिराय च दत्तम् । अत: चत्वारो वेदा अपौरुषेया: सन्ति। वेदानामध्ययनमध्यापनञ्च श्रवणपरम्परया एव सुदीर्घकालपर्यन्तं प्रचलितमासीत् अत: वेदानामपरसंज्ञा श्रुतिरपि अस्ति। चतुर्णां वेदानां चत्वारा उपवेदा: सन्ति। ऋग्वेदस्य उपवेदोऽस्ति आयुर्वेद:। यजुर्वेदस्य उपवेदोऽस्ति धनुर्वेद:। सामवेदस्य उपवेदोऽस्ति गन्धर्ववेद:। अथर्ववेदस्य उपवेदोऽस्ति अर्थवेद:। उपवेदा: ऋषिभि: प्रणीता:। वेदानां रहस्यमुद्धातनाय ऋषिभि: षड्वेदाङ्गानि रचितानि। तानि सन्ति शिक्षा-कल्प-व्याकरण-निरुक्त-छन्द-ज्योतिषश्च। शिक्षाग्रन्थानामुद्देश्यमस्ति वर्णानां ज्ञानम् । सम्प्रति पाणिनीयशिक्षा, याज्ञवल्क्यशिक्षा, वर्णोच्चारणशिक्षा इत्यादय: कतिपयो ग्रन्था एवोपलभ्यन्ते। पाणिनीयशिक्षा इति नाम्ना यो ग्रन्थोऽस्ति सोऽपि अपाणिनीयो वर्तते। यतो हि तस्मिन् ग्रन्थे उल्लेखोऽस्ति ‘‘अथ शिक्षां प्रवक्ष्यामिपाणिनीयं मतं यथा’’ वर्णोच्चारणशिक्षा नाम्ना यो ग्रन्थ: प्रकाशितस्तस्य अन्वेषणं महर्षिणा दयानन्देन कृतमासीत् । महर्षिदयानन्दानुसारमेष ग्रन्थ एव पाणिनीय शिक्षाग्रन्थोऽस्ति। एष ग्रन्थ: सूत्रशैल्यामेव लिखितोऽस्ति। कल्पवेदाङ्गं श्रौतसूत्र-गृह्यसूत्र-धर्मसूत्र-शुल्बसूत्ररूपेण चतुर्धा विभक्तमस्ति। कल्पवेदाङ्गे मुख्यरूपेण यज्ञानां, संस्काराणां, कत्र्तव्यकर्मणां, यज्ञवेदिनिर्माणविधेश्च उल्लेखोऽस्ति। व्याकरणवेदाङ्गस्य मुख्यमुद्देश्यं वेदानां रक्षा अस्ति। महर्षिणा पतञ्जलिना महाभाष्ये व्याकरणवेदाङ्गस्य प्रयोजनानि - इत्थं लिखितानि - ‘‘रक्षोहागमलघ्वसन्देहा प्रयोजनम्’’ ‘‘रक्षार्थं वेदानामध्येयं व्याकरणम्’’ इति। यद्यपि बहवो वैय्याकरणा बभूवु: परन्तु अष्टाध्याप्रणेता पाणिनिरेव मूर्धाभिषिक्त:। अष्टाध्यायीमधिकृत्य कात्यायनेन महर्षिणा पतञ्जलिना च क्रमेण वार्तिकसूत्राणि महाभाष्यञ्च रचितम् । पाणिनि: कात्यायन:, पतञ्जलिश्च, एते त्रयो वैय्याकरणा:’’ ‘‘त्रिमुनि’’ इत्यपरनाम्ना अपि प्रसिद्धा:। व्याकरणस्य दार्शनिको ग्रन्थो वाक्यपदीयमिति नाम्ना भर्तृहरिणा लिखितम् । भट्टोजिदीक्षितेन सिद्धान्त कौमुदी लिखिता। निरुक्तवेदाङ्गस्य प्रणेताऽस्ति यास्क:। अस्योद्देश्यमस्ति वैदिकपदानां निर्वचनम् । अत एव निरुत्तेâ प्रतिपादितमस्ति न त्वेव न निब्रूयात् अर्थात् समेषा वैदिकपदानां निर्वचनं कत्र्तव्यमेव। छन्दोवेदाङ्गस्य विषयोऽस्ति वैदिकमन्त्राणां छन्दसां ज्ञानम् । वेदेषु गायत्री-उष्णिक्-बृहती-पङ्कति-त्रिष्टुप् - जगती एतानि सप्त छन्दांसि समुपलभ्यन्ते। ज्योतिषवेदाङ्गस्य समबन्धोऽस्ति गणितशास्त्रेण। अस्य प्रमुखो वक्ता अस्ति लगध:। सम्प्रति फलितज्योतिषशास्त्रस्यप्रचार भूयान् वर्तते। वेदमन्त्राणां प्राचीनतमा व्याख्या ब्राह्मणग्रन्थेषूपलभ्यते ‘ब्रह्म’ इत्यस्य पदस्य अनेकेऽर्था: सन्ति। तेष्वेकोऽर्थोऽस्ति वेदमन्त्र:। अत एव वेदमन्त्राणां व्याख्यानभूता ग्रन्था: ब्राह्मणग्रन्था: सन्ति। ऋग्वेदस्य द्वौ ब्राह्मणग्रन्थौ स्त: - ऐतरेय:, कौषीतकि: यजुर्वेदस्य शतपथब्राह्मणम् , सामवेदस्य अनेके ब्राह्मणग्रन्था: समुपलभ्यन्ते। अथर्ववेदस्य गोपथब्राह्मणम्। अनन्तरम् आरण्यकग्रन्था रचिता:। आरण्यकग्रन्थानामनन्तरम् आध्यात्मिकचिन्तनसमन्विताग्रन्था उपनिषद् इति नाम्ना रचिता:। सर्गादौ भगवता परमेश्वरेण सामवेदस्य ज्ञानं कस्मै दत्तम्?