6
अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: समीचीनमुत्तरं चिनुत। माता, मातृभूमिश्च द्वे एवैते श्रेष्ठे। बालकस्य कृते मातु: सहजं प्रेम वर्तते। बालकस्य कृते सा सर्वमपि वस्तुजातं त्यक्तं शक्नोति। तस्या: सदैवायमभिलाष: यन्मम बालक: सदा सुखी, गुणवान् विद्वांश्च भवेत् । कृते सा स्वकष्टं नैवं चिन्तयति, सा स्वप्राणानपि दातुं समर्था। पुत्रोऽपि बाल्यादेव मातरं सर्वाधिकं मन्यते। यथा माता बालकं स्वसर्वस्वं मन्यते, तथैव पुत्रोऽपि मातरं स्वसर्वस्वं मन्यते। मानव: जन्म लभते सैव तस्य जन्मभूमि:। सा मानवस्य सर्वदैव आदरणीया जायते। मानव: विदेशे महान्तमादरं सम्मानं वा लभेत, किन्तु जन्मभूमिं सदा स्मरत्येव। स्वदेश-दर्शनलालसा तस्य हृदये सर्वदैव जागर्ति। भारतभूरस्माकं देश:, स्वदेशं प्रति अस्माकमनुराग:, आदरश्च स्वाभाविक एव। सर्वोऽपि जन: अद्यत्वे स्वदेशोन्नत्यै संलग्न: दृश्यते। अस्माकं परमो धर्म:। देशं प्रति भक्तिर्देशोन्नत्या: मूलकारणम्। देशभक्ति-भावनया प्रेरितो मानवो देशोन्नयनाय चेष्टते, समाजोद्धाराय प्रयतते, देशदारिद्रयं दूरीकरोति अशिक्षितान् शिक्षयति, व्यापारमुन्नयति, मातृभूमि-रक्षणाय च स्वप्राणान् त्यजति। ये हि स्वार्थसिद्धयर्थं देशस्योपकुर्वाणा इव दृश्यन्ते ते हि मिथ्याभक्ता देशाप-कारिण:। अतो निस्स्वार्था देशभक्तिभावना भव्या न तु विपरीता। महाराणाप्रतापस्य, दुर्धर्षाया लक्ष्मी-देव्या:, तेजस्विन्या दुर्गावत्याश्च पराक्रमवृत्तान्ता अस्मान्नुत्सा-हयन्ति। ते खलु अस्माकं पथप्रदर्शनायालम्। अस्माकं परमो धर्म: क: ?