4
निर्देश- प्रश्न संख्या (215 से 222) निम्नलिखितं गद्यांशं पठित्वा नवप्रश्नानां उत्तरं उचिततमं विकल्पं चित्वा लिखत- एतत् विशालमुद्यानम् अस्माकमस्ति । एतस्मिं उद्याने विविधा: वृक्षा: सन्ति । उद्यानस्य प्रान्तेषु निम्बतरव: आरोपिता: सन्ति । वसन्तर्तौ एतेषां वृक्षाणाम् कुसुमानि वायुमण्डलम् सुगन्धेन पूरयन्ति । एतेषां छाया घना, स्वास्थ्यकरी च भवति। जना: ग्रीष्मर्तौ एतेषां वृक्षाणां छायायां स्थित्वा तापमपनयन्ति । निम्बतरूणामनन्तरमुद्यानं परित: एव सरणि: अस्ति । सरणे: अनन्तरं आम्रपादपा: पुन: चैका सरणि: अस्ति । प्रात: काले जना: अत्र व्यायामायागच्छन्ति । सरणिषु च धावन्ति भ्रमन्ति वा। सरणीनां तटेषु विविधा: कुसुम पादपा: अपि सन्ति। तेषु शतपत्री, गन्धराज:, मल्लिका, मालती, सूर्यकमलं, च जनानां चित्तं विशेषत: हरन्ति। जना: तानि पुष्पाणि जिघ्रन्ति चित्तं च विनोदयन्ति । आम्रवृक्षाणामनन्तरं दाडिमानां, जम्बीराणां, मधुरजम्बीराणां, नारङ्गानां, कदलीफलानां च पादपा: सन्ति । अस्माकं उद्याने मुरारि: अस्माकं मालाकार: अस्ति । स: सर्वं दिनमत्र कार्यं करोति। स: संरक्षणे, आरोपणे, सिञ्चने चातीव चतुर:। अहमप्यत्रोद्याने कार्यं करोमि। एष: मम केदार:। एतस्मिं केदारेऽहंशाकान् आरोपयामि। पश्यत मम हस्ते खनित्रमस्ति । खनित्रेण भूमे: खननं भवति। खननानन्तरमत्र बीजानि वप्स्यामि। मम केदारस्य समीपे केचित् पादपा: अपि सन्ति । तेषां पादपानामहमेव सिञ्चनं रक्षणं च करोमि। उद्याने कार्यं कृत्वाऽहम् प्रसन्नो भवामि। एतेन पादपै: सह मम परिचयोऽपि भवति, व्यायामोऽपि च। अस्माकमुद्यानात् विविधानि फलानि, शाका:, पुष्पाणि च नगरे गच्छन्ति । तत्रैतेषां विक्रय: भवति। फलादीनां विक्रयेणास्माकं पर्याप्त: आयो भवति। तेनैव गृहस्य निर्वाह: भवति। इत्थमस्माकमुद्यानं अतीव लाभकरमस्ति ।उद्यानस्य मालाकार: किं करोति?