search
Q: संकेत: अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (323-331) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तर चित्वा लिखत: पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति। एषा एव रेवा इति नाम्नापि प्रसिद्धा। अस्या तटे अनेकानि तीर्थस्थानानि सन्ति। प्राचीनकालादेव अस्या: तटे तपस्विनां स्थानानि सन्ति। अत: नर्मदाया: परिक्रमणं कृत्वा जना: आत्मानं धन्यं मन्यन्ते अत्रत्यं नैसर्गिकं सौन्दर्यं दर्शनीयम्। अनूपपुरमण्डले अमरकण्टकं नाम पर्वतोऽस्ति। तत् एव नर्मदा प्रादुर्भवति। तदनन्तरम् एषा गहनेषु अरण्येषु उत्तुङ्गपर्वतेषु भ्रमणं कुर्वती डिण्डोरीमण्डलं प्रविशति। डिण्डोरीत: सर्पाकारगत्या उच्चावचमार्गेण महाराजपुरं प्राप्नोति। तत: जाबालिपुरम् आगच्छति। श्वेतशिलाखण्डानां कृते प्रसिद्धे भेड़ाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तदवलोकनार्थं बहवा: पर्यटका: अत्र आगच्छन्ति। नर्मदा नद्यामेव बरगी-इन्दिरासागर-सरदारसरोवरादय: बन्धा: निर्मिता: सन्ति। एभि: बन्धै: विद्युदुत्पादनं, भूमिसेचनं, जलपरिवहनं, अभयारण्यनिर्माणम् पर्यटनस्थल निर्माणम् इत्यादयो विविधलाभा: भवन्ति।डण्डोरी-स्थानात् इत्यस्य कृते क: शब्द: अनुच्छेदे प्रयुक्त:? तच्चित्वा लिखत
  • A. डिण्डोरीत:
  • B. मेहरौलीत:
  • C. कावेरीत:
  • D. मनोहरस्यगृहत:
Correct Answer: Option A - डिण्डोरी-स्थानात् इत्यस्य कृते डिण्डोरीत: शब्द: अनुच्छेदे प्रयुक्त:। अनुच्छेद में डिण्डोरी-स्थानात् के लिए ‘डिण्डोरीत:’ शब्द प्रयुक्त है।
A. डिण्डोरी-स्थानात् इत्यस्य कृते डिण्डोरीत: शब्द: अनुच्छेदे प्रयुक्त:। अनुच्छेद में डिण्डोरी-स्थानात् के लिए ‘डिण्डोरीत:’ शब्द प्रयुक्त है।

Explanations:

डिण्डोरी-स्थानात् इत्यस्य कृते डिण्डोरीत: शब्द: अनुच्छेदे प्रयुक्त:। अनुच्छेद में डिण्डोरी-स्थानात् के लिए ‘डिण्डोरीत:’ शब्द प्रयुक्त है।