search
Q: निर्देश:अधोलिखितं गद्याशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । ‘अस्ति मगधदेशे फुल्लोत्पलाभिधानं सर: । तत्र चिरं संकटविकटनामानौ हंसौ निवसत: । तयोर्मित्रं कम्बुग्रीवनामा कूर्मश्व प्रतिवसति । अथैकदा आखेटकैरागत्य तत्रोक्तम् – ‘तदत्रास्माभिरद्योषित्वा प्रातर्मत्स्यकूर्मादयो व्यापादयितव्या: ।’ तदाकरण्य कूर्मो हंसावाह – ‘सुह्रदौ ! श्रुतोऽयं धीवरालाप:; अधुना किं मया कर्तव्यम् ? ।’ हंसावाहतु: – ‘ज्ञायताम् । पुनस्तावत्प्रातर्यदुचितं तत्कर्तव्यम् ।’ कूर्मो ब्रूते – ‘मैवम् । यतो दृष्टव्यतिकरोऽहमत्र ।’ तथाचोक्तम् – अनागतविधाता तथा च प्रत्युत्पन्नमति : द्वावेतौ सुखेन आसाते यद्भविष्यो विनश्यति । तावाहतु: – कथमेतत् ? कूर्म कथयति ‘पुरास्मिन्नेव सरस्येवंविधेषु आखेटकेषूपस्थितेषु मत्स्यत्रयेणालोचितम् ।’ तत्रानागतविधाता नामैको मत्स्य:। तेनालोचितम् – ‘अहं तावज्जलाशयान्तरं गच्छामि’ इत्युक्तवा ह्नदान्तरं गत: । अपरेण प्रत्युत्पन्नमतिनाम्ना मत्स्येनाभिहितम् – ‘भविष्यदर्थे प्रमाणाभावात् कुत्र मया गन्तव्यम् ? तदुत्पन्ने यथाकार्यं तदनुष्ठेयम् । यद्भविष्येणोक्तम् – यद् अभावि न तद्भावि, भावि चेत् तद् अन्यथा न भवति। तत: प्रातर्जालेन बद्ध: प्रत्युत्पन्नमतिर्मृतवदात्मानं संदश्र्य स्थित:। ततो जालादपसारितो यथाशक्तयुत्प्लुत्य गभीरं नीरं प्रविष्ट: । यद्भविष्यश्व आखेटकै : प्राप्तो व्यापादित: । अतोऽहं ब्रवीमि – ‘‘अनागतविधाता’’ इत्यादि ।। तद्यथाहमन्यह्नदं प्राप्नोमि तथा क्रियताम् ।’ हंसावाहतु:–‘जलाशयान्तरे प्राप्ते तव कुशलम्, स्थले गच्छतस्ते को विधि:?’ कूर्म आह–‘यथाऽहं भवदभ्यां सहाकाशवर्त्मंना यामि तथा विधीयताम् ।’ हंसौ ब्रूत: – ‘कथमुपाय: संभवति ?’ । कच्छपो वदति – ‘युवाभ्यां अञ्चुधृतं काष्ठखण्डमेकं मया मुखेनावलम्ब्य गन्तव्यम् । युवयो: पक्षबलेन मयापि सुखेन गन्तव्यम् ।’अस्मिन् गद्यांशे कूर्मस्य पर्यायवाची कोऽन्य शब्द: ?
  • A. सर्प:
  • B. कच्छप:
  • C. शूकर:
  • D. मत्स्य:
Correct Answer: Option B - अस्मिन् गद्यांशे कूर्मस्य पर्यायवाची कच्छप: अस्ति। अर्थात् इस गद्यांश में कूर्म का पर्यायवाची कच्छप: शब्द है। सर्प - अहि शूकर: - वराह मत्स्य - मीन
B. अस्मिन् गद्यांशे कूर्मस्य पर्यायवाची कच्छप: अस्ति। अर्थात् इस गद्यांश में कूर्म का पर्यायवाची कच्छप: शब्द है। सर्प - अहि शूकर: - वराह मत्स्य - मीन

Explanations:

अस्मिन् गद्यांशे कूर्मस्य पर्यायवाची कच्छप: अस्ति। अर्थात् इस गद्यांश में कूर्म का पर्यायवाची कच्छप: शब्द है। सर्प - अहि शूकर: - वराह मत्स्य - मीन