search
Q: निर्देश- प्रश्न संख्या (238 से 244) निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां उचितं विकल्पं चित्वा उत्तराणि दातव्यानि। एकस्मिं नदीतीरे एक: जम्बूवृक्ष: आसीत् । तस्मिन् एक: वानर: प्रतिवसति स्म। स: नित्यं तस्य फलानि खादति स्म। कश्चित् मकरोऽपि तस्यां नद्यामवसत् । वानर: प्रतिदिनं तस्मै जम्बूफलान्यच्छत् । तेन प्रीत: मकर: तस्य वानरस्य मित्रमभवत् । एकदा मकर: कानिचित् जम्बूफलानि पत्न्यै अपि दातुं आनयत् । तानि खादित्वा तस्य जाया अचिन्तयत् अहो! य: प्रतिदिनमीदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति। सा पतिमकथयत् - ‘भो:! जम्बूभक्षकस्य तव मित्रस्य हृदयमपि जम्बूवत् मधुरं भविष्यति। अहं तदेव खादितुमिच्छामि। तस्य हृदयभक्षणे मम बलवती स्पृहा। यदि मां जीवितां द्रष्टुमिच्छसि तर्हि आनय शीघ्रं तस्य वानरस्य हृदयम्’। पत्न्या: हठात् विवश: मकर: नदीतीरे गत्वा वानरमवदत् – ‘बन्धो! तव भ्रातृजाया त्वां द्रष्टुमिच्छति। अत: मम गृहमागच्छ’। वानर: अपृच्छत् - ‘कुत्र ते गृहम् ? कथमहं तत्र गन्तं शक्नोमि ?’ मकर: अवदत् - ‘अलं चिन्तया। अहं त्वां स्वपृष्ठे धृत्वा गृहं नेष्यामि’। तस्य वचनं श्रुत्वा विश्वस्त: वानर: तस्मात् वृक्षस्कन्धात् अवतीर्य मकरपृष्ठे उपाविशत् । नदीजले वानरं विवशं मत्वा मकर: अकथयत् – ‘मम पत्नी तव हृदयं खादितुमिच्छति। तस्यै तव हृदयं दातुमेव त्वां नयामि।’ चतुर: वानर: शीघ्रमकथयत् –‘अरे मूर्ख! कथं न पूर्वमेव निवेदितं त्वया? मम हृदयं तु वृक्षस्य कोटरे एव निहितम्। अत: शीघ्रं तत्रैव नय येन अहम् स्वहृदयमानीय भ्रातृजायायै दत्त्वा तां परितोषयामि इति।’ मूर्ख: मकर: तस्य गूढमाशयं अबुद्ध्वा वानरं पुनस्तमेव वृक्षमनयत् । तत: वृक्षमारुह्य वानर: अवदत् – ‘धिङ् मूर्ख! अपि हृदयं शरीरात् पृथक तिष्ठति ? गच्छ, अत: परं त्वया सह मम मैत्री समाप्ता, सत्यमुक्तं केनचित् कविना विश्वासो हि ययोर्मध्ये तयोर्मध्येअस्ति सौहृदम्। यस्मिन्नैवास्ति विश्वास: तस्मिन् मैत्री क्व सम्भवा।।मकर: पत्न्यै किं दातुम् आनयत्?
  • A. जम्बूफलानि
  • B. वानरस्य हृदयम्
  • C. वानरस्य मांसम्
  • D. आम्रफलानि
Correct Answer: Option A - मकर: पत्न्यै ‘जम्बूफलानि’ दातुम् आनयत्। अर्थात्- घड़ियाल पत्नी के लिए जामुन फल को देने के लिए लाया। प्रस्तुत अंश में ‘दातुम्’ शब्द में दा + तुमुन् · दातुम् होता है। जो कि तुमुन् प्रत्यय अव्यय है, इनके रूप नहीं चलते। जब दो क्रिया पदों का कर्ता एक होता है, तथा एक क्रिया दूसरी क्रिया का प्रयोजन या निमित्त होती है तो निमित्तार्थक क्रिया पद में ‘तुमुन्’ प्रत्यय होता है।
A. मकर: पत्न्यै ‘जम्बूफलानि’ दातुम् आनयत्। अर्थात्- घड़ियाल पत्नी के लिए जामुन फल को देने के लिए लाया। प्रस्तुत अंश में ‘दातुम्’ शब्द में दा + तुमुन् · दातुम् होता है। जो कि तुमुन् प्रत्यय अव्यय है, इनके रूप नहीं चलते। जब दो क्रिया पदों का कर्ता एक होता है, तथा एक क्रिया दूसरी क्रिया का प्रयोजन या निमित्त होती है तो निमित्तार्थक क्रिया पद में ‘तुमुन्’ प्रत्यय होता है।

Explanations:

मकर: पत्न्यै ‘जम्बूफलानि’ दातुम् आनयत्। अर्थात्- घड़ियाल पत्नी के लिए जामुन फल को देने के लिए लाया। प्रस्तुत अंश में ‘दातुम्’ शब्द में दा + तुमुन् · दातुम् होता है। जो कि तुमुन् प्रत्यय अव्यय है, इनके रूप नहीं चलते। जब दो क्रिया पदों का कर्ता एक होता है, तथा एक क्रिया दूसरी क्रिया का प्रयोजन या निमित्त होती है तो निमित्तार्थक क्रिया पद में ‘तुमुन्’ प्रत्यय होता है।