search
Q: निर्देश- प्रश्न संख्या (223 से 229) अधोलिखितं गद्यांशं पठित्वा तदाश्रितानांप्रश्नानां उत्तरं समुचितं विकल्पं चित्वा लिखत। अस्माकं देश: भारतवर्षम् । एतस्य उत्तरस्यां दिशायां हिमालय: पर्वतराजोअस्ति । प्राचीनकाले भारतस्याभिधानमार्यावर्त: आसीत्। अत्रत्या: मूलनिवासिन: आर्या: एव इति विचार: एतेन परिपुष्टो भवति। अत्र पुरा एक: प्रतापी नृपोऽभवत् । यस्याभिधानं भरत: आसीत्। तस्य राज्यं न केवलं भारते एव आसीत्, अपितु विदेशेषु अपि तस्य शासनमासीत् । राज्य-प्रबन्धे स: अतीव कुशल: आसीत् । सर्वे जना: तस्य राज्ये सुखिन: आसन् । तस्याभिधानेनैव एतस्य देशस्याभिधानं भारतमस्ति । अस्माकं देशे विविधा: भाषा: विविधा: च सम्प्रदाया: सन्ति , परम् अनेकेषां भाषणामुद्गम: संस्कृतभाषा अस्ति , अनेकेषां च सम्प्रदायानामुद्गम: वैदिक-संस्कृति:। अस्माकं भारतभूमि: चैका। तस्मात् ये वयं भारते वसाम:, ते सर्वे एव भारतभूमे सुता:, परस्परं च बान्धवा:। यदि वयं सहयोगेन कार्यं करिष्याम:, परस्परं च स्नेहेन मिलित्वा च स्थास्याम:, तदाऽस्माकं सर्वेषां कल्याणम् । यदि च वयं परस्परं घृणां द्वेषं च दर्शयिष्याम:। तदाऽस्माकं देशस्य च महती हानि: भविष्यति। अत: सर्वेषां परमं कर्तव्यम यत् ते सर्वे एव मिलित्वैवात्र वसेयु:, द्वेषं घृणां च त्यजेयु:।घृणा-द्वेष-प्रदर्शनेन किं भविष्यति?
  • A. महती हानि:
  • B. परस्परं कलह:
  • C. देशस्य विघटनम्
  • D. भारतवर्षस्य कीर्ते: विनाश:
Correct Answer: Option A - घृणा-द्वेष प्रदर्शनेन ‘महती हानि:’ भविष्यति। अर्थात्– घृणा –द्वेष आदि के प्रदर्शन से बहुत बड़ी हानि होगी। उपर्युक्त अंश में ‘हानि’ शब्द है जिसका विलोमार्थक शब्द ‘लाभ’होगा।
A. घृणा-द्वेष प्रदर्शनेन ‘महती हानि:’ भविष्यति। अर्थात्– घृणा –द्वेष आदि के प्रदर्शन से बहुत बड़ी हानि होगी। उपर्युक्त अंश में ‘हानि’ शब्द है जिसका विलोमार्थक शब्द ‘लाभ’होगा।

Explanations:

घृणा-द्वेष प्रदर्शनेन ‘महती हानि:’ भविष्यति। अर्थात्– घृणा –द्वेष आदि के प्रदर्शन से बहुत बड़ी हानि होगी। उपर्युक्त अंश में ‘हानि’ शब्द है जिसका विलोमार्थक शब्द ‘लाभ’होगा।