search
Q: निर्देश: : अधोलिखितं गद्यांशं पठित्वा तदाधारिताप्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चिनुत। एक: आसीत् प्रेमल: एका चासीत् प्रेमली। काष्ठच्छेदेन श्रान्त: प्रेमल: सायंकाले समागच्छत्, प्रेमलीं चावदत् – प्रेमलि ! अद्य खलु भृशं श्रान्तोऽस्मि । मह्यं जलम् उष्णं कृत्वा देहि । अहं स्नात्वा तस्मिन् जले चरणौ स्थापयामि । तेन मम श्रान्ति: अपगमिष्यति। प्रेमली अवदत् – तवानुरोधं कथमहम् अस्वीकुर्याम् ? पश्य, तत्र हण्डी उपरि स्थापिता । ताम् अवतारय । प्रेमल: हण्डीमवातारयत् । तत: स अवदत् – अधुना किम् करोमि? प्रेमली अवदत् – निकटे कूप: वर्तते । तत्र गत्वा जलं भृत्वा आनय । प्रेमल: घटे जलं सम्पूर्य आगच्छत् । पुन: प्रेमलीम् अपृच्छत् – इदानीं किम् ? प्रेमली अवदत् – अधुना चुल्यां काष्ठानि प्रज्ज्वालय । प्रेमल: काष्ठानि प्रज्ज्वाल्य अपृच्छत् – अग्ने किम् करवाणि ? प्रेमली अकथयत् – यावत् चुल्ली सम्यक् न ज्वलति, यावत् फूत्कुरु, किमन्यत् ? प्रेमलेन चुल्ली सम्यक् प्रज्वालिता । अथ च अपृच्छत् – अधुना किम् करवाणि ? प्रेमली अवदत् – घटात् हण्ड्यां जलं पूरय । तत: हण्डीं चुल्याम् उपरि स्थापय । हण्डीमवतार्य प्रेमल: पृच्छति – अधुना ? प्रेमली वदति – अधुना हण्डीं स्नानगृहे स्थापय । प्रेमल: हण्डीं स्नानगृहे निधाय पृच्छति – अधुना ? प्रेमली निर्दिशत् – सम्प्रति स्नानं कुरु । प्रेमल: स्नात्वा अपृच्छत् – अधुना किम् करणीयम् ? प्रेमली अवदत् – इदानीं हण्डीं यथास्थानं निधेहि । प्रेमल: हण्डीं संस्थाप्य शरीरं हस्तेन संस्पृश्य अकथयत् – करे, कीदृशं पुष्पमिव शरीरं लघु जातम् । यदि त्वं प्रतिदिनं एवमेव जलम् उष्णं कृत्वा मह्यं ददासि तर्हि कियत् शोभनं । प्रेमली अवदत् – किमहं न इति कथयामि ? परन्तु अत्र कस्य आलस्यम् ? प्रेमल: अवदत् – आलस्यं तु ममैव परम् अग्ने आलस्यं न करष्यिामि। प्रेमली अवदत् – अस्तु ! सम्प्रति आवां भोजनं कुर्व:। ‘‘मह्यं जलम् उष्णं कृत्वा देहि।’’ कथनम् इदम् कस्य अस्ति ?
  • A. प्रेमलस्य
  • B. प्रेमलस्य मित्रस्य
  • C. प्रेमल्या:
  • D. प्रेमल्या: भ्रातु:
Correct Answer: Option A - ‘‘मह्यं जलम् उष्णं कृत्वा देहि।’’ कथनम् इदम् प्रेमलस्य अस्ति। मह्यं जलम् उष्णं कृत्वा देहि !’’ यह कथन प्रेमल का है। एक था प्रेमल और एक थी प्रेमला । लकड़ी को छेदने से थका हुआ प्रेमल सांयकाल में आया और प्रेमली को बोला-प्रेमली मै आज अत्यधिक थका हुआ हूँ। मुझे जल गर्म करके दो। प्रेमलस्य में षष्ठी विभक्ति एक वचन है।
A. ‘‘मह्यं जलम् उष्णं कृत्वा देहि।’’ कथनम् इदम् प्रेमलस्य अस्ति। मह्यं जलम् उष्णं कृत्वा देहि !’’ यह कथन प्रेमल का है। एक था प्रेमल और एक थी प्रेमला । लकड़ी को छेदने से थका हुआ प्रेमल सांयकाल में आया और प्रेमली को बोला-प्रेमली मै आज अत्यधिक थका हुआ हूँ। मुझे जल गर्म करके दो। प्रेमलस्य में षष्ठी विभक्ति एक वचन है।

Explanations:

‘‘मह्यं जलम् उष्णं कृत्वा देहि।’’ कथनम् इदम् प्रेमलस्य अस्ति। मह्यं जलम् उष्णं कृत्वा देहि !’’ यह कथन प्रेमल का है। एक था प्रेमल और एक थी प्रेमला । लकड़ी को छेदने से थका हुआ प्रेमल सांयकाल में आया और प्रेमली को बोला-प्रेमली मै आज अत्यधिक थका हुआ हूँ। मुझे जल गर्म करके दो। प्रेमलस्य में षष्ठी विभक्ति एक वचन है।