search
Q: निर्देश (46-52): अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: समीचीनमुत्तरं चिनुत। मानवजीवनस्य नास्ति कोऽप्यंशो यत्र गोभिर्नोपक्रियते। यथा माता पुत्रं रक्षति पालयति, तथैव गौरपि रक्षति पालयति दुग्धादिना। अतिसरला मुग्धा चास्या आकृति:। तृणानि चरित्वा अमृतमयं दुग्धं ददाति मानवेभ्य:। अल्पा वत्सा बलीवर्दा भूत्वा हलशकटादिषु युज्यन्ते। गावो हि श्वेता:, कृष्णा, कपिला: पीता:, कर्बुराश्चेति नैकविधा:। कृषिप्रधानस्य भारतस्य मान एव सर्वस्वम् । गोजाता वृषा हलैर्भूमिं कर्षन्ति, उर्वराञ्च कुर्वन्ति । तैरेव क्षेत्राणि सिच्यन्ते कूपेभ्यो जलमुद्धृत्य । परिपक्वं च सस्यं तैरेव संशोध्यते गृहमानीयते च । ऐहलौकिक-पारलौकिकश्रेय:साधनस्य धर्मस्य गाव: प्रधानमङ्गम्। गोदुग्ध-दधि-घृतै: पुष्टानि भवन्ति शरीराणि। आयुर्वेदशास्त्रेषु दुग्धेषु गोदुग्धमेव उत्तमद्घुष्टम्, सर्वरोगेषु गोदुग्धस्यैवोपयोग: क्रियते । गव्यं धृतं बलं ददाति । यत्र भारते पुरा दुग्धदधि-घृतानां नद्य: प्रवहन्ति स्म तत्र हा ! दुग्धदधिघृतादयो हि दुर्लभा सञ्जाता: । कथमद्य वयं बलिनो भवेम, शुष्कभोजनाशिनामस्माकं कथं दीर्घम् आयु: स्यात् । अद्यत्वे, स्वतन्त्रे देशे आशास्महे यद् गोवंशस्य रक्षा क्रियेत राष्ट्रं च समृद्धं स्यात् । पुन: शोभनानि दिनानि पश्येम। गवां सेवया लौकिकं श्रेय: लभ्यते इतीतिहास एवात्र प्रमाणाम् । को न जानाति यद्रघुवंशावतंसो राजा दिलीपो गोसेवया पुत्ररत्नं लेभे । गौतमशिष्यस्य सत्यकामस्यापि गोसेवयैव तत्त्वज्ञानं बभूव । भारतसंस्कृतिर्गां मातरं मन्यते । वस्तुत: सा मातैव । सा सर्वाण्यपि साम्येन पालयति । न केवलं गोरक्षकेभ्य एव ददाति सुखानि,अपि तु गोघातकेभ्योऽपि तथैव सुखानि वितरति । कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ।
question image
  • A.
  • B. द्ध
  • C. क्त
  • D. धमन्
Correct Answer: Option C - ‘समृद्धम्’ इत्यस्मिन् पदे ‘क्त’ कृत्प्रत्यय: अर्थात् क्त और क्तवतु इन दोनों प्रत्ययों को ‘निष्ठा’ कहते हैं। निष्ठा शब्द का यौगिक अर्थ है- समाप्ति। क्त और क्तवतु प्रत्यय किसी कार्य की समाप्ति का बोध कराते हैं। - कृत् प्रत्यय हैं- क्त, क्तवतु, शतृ और शानच्, तुमुन्, णमुल् आदि।
C. ‘समृद्धम्’ इत्यस्मिन् पदे ‘क्त’ कृत्प्रत्यय: अर्थात् क्त और क्तवतु इन दोनों प्रत्ययों को ‘निष्ठा’ कहते हैं। निष्ठा शब्द का यौगिक अर्थ है- समाप्ति। क्त और क्तवतु प्रत्यय किसी कार्य की समाप्ति का बोध कराते हैं। - कृत् प्रत्यय हैं- क्त, क्तवतु, शतृ और शानच्, तुमुन्, णमुल् आदि।

Explanations:

‘समृद्धम्’ इत्यस्मिन् पदे ‘क्त’ कृत्प्रत्यय: अर्थात् क्त और क्तवतु इन दोनों प्रत्ययों को ‘निष्ठा’ कहते हैं। निष्ठा शब्द का यौगिक अर्थ है- समाप्ति। क्त और क्तवतु प्रत्यय किसी कार्य की समाप्ति का बोध कराते हैं। - कृत् प्रत्यय हैं- क्त, क्तवतु, शतृ और शानच्, तुमुन्, णमुल् आदि।