1
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चिंत्वा लिखत। धेनु: भारतीयसंस्कृते: प्रतीकम् । भारतीयानां कृते धेनु: न केवलं पशु: अपि तु जीवनपोषिणी शक्ति: अस्ति। सा अस्माकं कृषिं पोषयति, आर्थिकस्थितिं च वर्धयति। आयुर्वेदस्य वचनानुसारं धेनो: दुग्धम् आरोग्याय हितकरं, पौष्टिकाहार: च। गोदुग्धपानेन रोगनिरोधशक्ति:, बलम्, तेज: च लभ्यन्ते। दुग्धात् उत्पन्नं तक्रं , घृतं च स्वास्थ्यवर्धकम् इति वैद्या: कथयन्ति। आधि-व्याधि-निवारणाय दुग्ध-दधि-तक्र-नवनीत-घृतानाम् उपयोग: आयुर्वेदे निरूपित:। धेनव: न केवलं दुग्धदानेन उपकुर्वन्ति अपि तु कृषिकार्ये भारवहनार्थं साधानरूपेण अपि सहायका: भवन्ति। श्रीकृष्ण: कश्चन गोपबाल: आसीत् । तस्य वेणुवादनेन आकृष्टा: धेनव: तं परित: तिष्ठन्ति स्म। स: गोवत्सै: सह क्रीडति स्म। गोमयम् इन्धनरूपेण उपयुज्यते। तेन इदानीं विद्युत् अपि उत्पद्यमाना अस्ति। अनेकै : खनिजै: युक्तं गोमयम् अत्युत्तमम् उर्वरकम् अस्ति। गोमूत्रं गोमयं च भूमे: उर्वरतां वर्धयत:। रासायनिकोर्वरकं तु भूमे: गुणवत्तां नाशयति, अस्माकं स्वास्थ्यस्य अपि हानिं करोति इति सर्वे अङ्गीकुर्वन्ति। अत: गोसम्पद् न केवलं ग्रामस्य, अपि तु सम्पूर्णदेशस्य स्वास्थ्यस्य आर्थिकताया: च आधारभूता अस्ति। धेनु: कस्या: प्रतीकम् अस्ति?