6
अधोलिखितं गद्यं पठित्वा प्रश्नानां (16-24) विकल्पात्मकोत्तरेभ्य: उचिततमं उत्तरं चिनुत। उच्यते खलु ‘ शरीरमांद्य खलु धर्मसाधनम्’। सत्यमिदम्। विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति। शरीरेणैव सर्वाणि शुभानि कार्याणि साधयितुं शक्यन्ते। शरीरस्य स्वास्थ्यायाधोलिखिता: नियमा: अवश्यं पालनीया: - सर्वत: प्रथमं स्वस्थेन मनुष्येण ब्राह्मे मुहुर्ते उत्थातव्यम्। नियमितरूपेण दन्तधावनेन कूर्चिकया वा दन्तशुद्धि: कर्तव्या । प्रत्येकं दन्तं क्रमश: निर्मलं कृत्वा जलेन मुखं धावनीयम्। एवं मुखस्य सर्वं मलमपनीयते मुखरोगाश्च न भवन्ति। शीतलेन जलेन वदनप्रक्षालनं नेत्रयोश्च शुद्धि: हितकरी भवति। तत: सर्वस्मिन् शरीरे तैलमर्दनं विधेयम्। तैलमर्दनेन अङ्गानि बलिष्ठानि जायन्ते सौन्दर्य च वर्धते। पुन: व्यायाम:कर्तव्य :। व्यायामेन सम्यक् रक्तसञ्चार:, पेशीनां पुष्टि:, क्षुधावृद्धि:, शरीरे च स्फूर्ति : जायते। व्यायामानन्तरं किञ्चित्कालं स्थित्वा स्नानमपि विधेयम् । स्नानं प्राय: शीतलेन वारिणा कर्तव्यं , परन्तु शिथिले शरीरे कदुष्णेन वारिणा स्नानं हितकरं भवति। स्नानं कृत्वा स्वच्छान्येव वस्त्राणि धारणीयानि, न तु मलिनानि। मलिनवस्त्राणां धारणमेतादृशमेव भवति यथा स्नात्वा पङ्कलप: कृत: स्यात्। स्वास्थ्यरक्षार्थं स्वाहारेऽपि ध्यानं देयम्। य: यथासमयं भक्षयति, परिमितं च, स: कदापि जठररोगेण पीडितो न भवति। भोजनं सात्त्विकं , शुंद्ध, पुष्टिकरं च स्यात् तच्च शान्तमनया भोक्तव्यम् । यथा स्वच्छता, व्यायाम:, भोजनं च स्वास्थाय उपयुक्तानि, तथैव विश्रामस्यापि महत्त्वमस्ति। ऋते विश्रामात् कश्चिदपि स्वस्थ: स्थातुं न शंकोति । विश्रामेण श्रमोऽपनीयते, तस्मात् विश्राम: स्वास्थ्याय परमावश्यक:। ये परीक्षा- दिनेषु निरन्तरं पठन्ति, न च विश्राम्यन्ति, ते विक्षिप्ता: जायन्ते, सर्वं पठितं च विस्मरन्ति। एवं च रुग्णीभूय परीक्षायामप्यनुत्तीर्णा: जायन्ते। तस्माद्विश्रामस्यापि महत्यावश्यकता वर्त्तते । आलस्यं विश्रामस्य पर्यायो नास्ति। आलस्यं तु कर्मण्यनिच्छा भवति, विश्रामश्च कर्मण: करणाय नवशक्त्या: अर्जन-साधनम् भवति। तस्मान्मनुष्येणालसेन न भाव्यम्, परमावश्यको विश्राम कर्तव्य :।तैलमर्दनानन्तरं किं कर्तव्यम् ?