9
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत। कृषिप्रधानोऽयम् अस्माकं भारतदेश:। अत्रत्या: अशीतिततोऽप्यधिकं प्रतिशतं जना: ग्रामेंषु वसन्ति। ग्रामवासिन: प्रायेण कृषका: भवन्ति। ते प्रात: कालादारभ्य सायं यावत् महता परिश्रमेंण क्षेत्रेषु कर्म कुर्वन्ति। स्वक्षेत्राणि हलेन कर्षन्ति, तत्र बीजानि वपन्ति। ग्रामीणा: जना: परिश्रमशीला: भवन्ति। एतदर्थं ते स्वशरीरं बलवन्तं विधातुं पुष्कलमात्रायां दुग्धं घृतं-दधि, च खादन्ति। एतत्कृते ते स्व-स्वगृहेषु गाम्, अजां महिषीं च पालयन्ति। भोजनेषु हरितानि शाकानि प्रयुज्यन्ते यानि ते स्वक्षेत्रेभ्य: एव प्राप्नुवन्ति। केचन गृहाणि परित: अपि शाकानि रोपयन्ति। ग्रामें जलं वायु: च प्रदूषिते न स्त:। भ्रमणाय कुल्यातटं, नद्या: नटम्, उपवनानि च सन्ति। जना: सामाजिकानि, राष्ट्रियाणि, धार्मिकाणि च पर्वाणि मिलित्वा सोत्साहं परस्परं सौहार्देन च सम्पादयन्ति। सुखे-दु:खे च अन्योन्यं साहाय्यं कुर्वन्त: आनन्दमयं जीवनं यापयन्ति। सत्यमेंवोक्तम् - य: कोऽपि भारतं सम्यक् ज्ञातुमिच्छति तेन भारतीया: ग्रामा: दृष्टव्या: यतोऽहि भारतं नैसर्गिकरूपेण ग्रामेंष्वेव दृश्यते।ग्रामवासिन: प्रायेण किं भवन्ति ?