search
Q: अधोलिखितं गद्यांशं पठित्वा 1-8 प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत– योगस्य परम्परा: वेदेषु मूलरूपेण यद्वा सूत्रात्मकरूपेण सर्वा विद्या: सन्ति। योगस्य वर्णनमपि सर्वासु वैदिकसंहितासुमूलरूपेण प्राप्यते। विश्वस्य सर्वे विद्वांस: स्वीकुर्वन्ति यद्वेदा विश्वस्य प्राचीनतमा ग्रन्था: सन्ति। भारतीयज्ञानपरम्परानुसारन्तु सर्गादौ परमकारूणिकेन परमेश्वरेण सर्वोपकारार्थम् अग्नि-वायु:–आदित्य, अङ्गिरा इत्येतेभ्यो ऋषिभ्योऽनुक्रमेण ऋग्वेदस्य, यजुर्वेदस्य, सामवेदस्य, अथर्ववेदस्य च ज्ञानं दत्तम्। इत्यं स्वत: सिद्धं यद् योगपरम्परा अति सर्गसृजनेन सहैव प्रचलिता आसीत्। प्रस्तूयन्तेऽत्र केचन योगविषयका वेदमन्त्रा:– योगे योगे तवस्तरं वाजे वाजे हवामहे। सखाय इन्द्रमूतय। (यजुर्वेद:) अष्टचक्रा नव द्वारा देवानां पूरयोध्या। (अथर्ववेद:) योगविषयका एतादृक्षा बहवो मन्त्रा वेदेषु सन्ति। अत्र तु निदर्शनरूपेण कतिपयानां मन्त्राणामेवोल्लेख: कृत:। वेदेषु विस्तरेण योगसिद्धान्तानां चर्चा विद्यते। अस्मिन् विषये स्वामिदिव्यानन्द सरस्वतिमहोदयेन लिखितो ग्रन्थो द्रष्टव्य:। वेदानां व्याख्यानभूतेषु ब्राह्मणारण्यकोपनिषत्साहित्येसु अपि विस्तरेण योगस्य चर्चा विद्यते। कठोपनिषदि वर्णनमस्ति-यदा पञ्चज्ञानेन्द्रियाणि मनसा सह स्वीकायं व्यापारं विहाय स्थिराणि भवन्ति। बुद्धिश्च न विचेष्टते सैव परमशान्त्यवस्था कथ्यते। योगेश्वरेण भगवता कृष्णेन पञ्चसहस्रवर्षेभ्य: पूर्वमेव गीतायां योगपरम्पराया वर्णनं एवम्प्रकारेण विहितमस्ति–आदौ ईश्वरेण योगस्य ज्ञानं विवस्वते दत्तमासीत्। विवस्वान् मनवे योगशास्त्रं प्राह। मनुना इक्ष्वाकोऽध्यापित। एवमुत्तरोत्तरं योगपरम्परा प्रचलिता। अनन्तरं अस्या योगपरम्पराया विलोप: सञ्जात:। तस्यैव योगस्य ज्ञानमधुना मया ते दत्तम्। महाभारतयुद्धानन्तरमेकवारं पुनर्विलुप्तेव सञ्जाता योगपरम्परा। केवलं कतिपयेषु गिरिकन्दरासु तपस्यारतेषु ऋषिमुनिष्वेन सीमिता सञ्जाता। लोके च योगविषये विविधा भ्रान्ता धारणा: प्रचलिता:। वर्तमानकाले महर्षिणा दयानन्देन पुन महर्षिपतञ्जलेर्योगदर्शनस्य वास्तविकं स्वरूपं प्रकाशितम्। तदनन्तरं महर्षिदयानन्दस्य अनुयायिभिर्भूरिश: प्रचार: कृतो योगपरम्पराया:, तेषु स्वामिरामदेवस्य अपूर्वमेव योगदानं वर्तते। भारतीय परम्परायामादियोगी शिव इति मन्यते। आदिकाले शिवेन हिमालयस्थे कान्ति इति नाम सरोवरतीरे सप्तऋषिभ्यो योगस्य ज्ञानं दत्तमासीत्। एतै: सप्तभि: ऋषिभिस्तञ्ज्ञानं संसारस्य विविधेषु भूभागेषु प्रचारितम्। शिव: हिमालयक्षेत्रस्याधिपतिरासीत्। शिवस्य राज्ये भागीरथेन गङ्गाया: प्रवाह: प्रवाहित:, यस्य अलंकारिकंन वर्णनं पुराणेषूपलभ्यते। 2700 ईसात: पूर्ववर्तिषु सिन्धुसभ्यतायां तथा च सरस्वती सभ्यतायां योगासनानां योगमुद्रादीनाञ्चप्राप्यमाणा: साक्ष्या अपि प्रमाणयन्ति यद् भारते सुव्यवस्थिता योगपरम्परा प्रचलिता आसीत्। महर्षिणा पतञ्जलिना महाभारतयुद्धात्प्रागेव योगदर्शने पञ्चनवत्युत्तरैकशततमेषु सूत्रेषु विभिन्नानां योगसाधकानां योगसाधनाजन्यमनुभवं सग्गलितमासीत्। योगसूत्राणां प्रथमं भाष्यं महर्षिणा वेदव्यासेन व्यासभाष्यमिति नाम्नालिखितमासीत्। अधोऽगितिषु सिन्धुसभ्यताया: क: काल:?
  • A. 2700 ईसापश्चात्
  • B. 2700 ईसापूर्वम्
  • C. 1700 ईसापूर्वम्
  • D. 1700 ईसापश्चात्
Correct Answer: Option B - उपरि कथनानुसारं सिन्धु सभ्यताया: 2700 ईसापूर्वम् काल: अस्ति। उपर अंकित कथनों के अनुसार सिन्धु सभ्यता का समय 2700 ईसापूर्वम् का है। यह सभ्यता भारतवर्ष में प्राचीन मानी जाती है। इस सभ्यता में भी तथा सरस्वती सभ्यता में भी योगासन तथा योग की मुद्रा आदि प्राप्त हुयी है। इससे यह स्पष्ट है कि भारत में सुविकसित योग परम्परा विद्यमान थी।
B. उपरि कथनानुसारं सिन्धु सभ्यताया: 2700 ईसापूर्वम् काल: अस्ति। उपर अंकित कथनों के अनुसार सिन्धु सभ्यता का समय 2700 ईसापूर्वम् का है। यह सभ्यता भारतवर्ष में प्राचीन मानी जाती है। इस सभ्यता में भी तथा सरस्वती सभ्यता में भी योगासन तथा योग की मुद्रा आदि प्राप्त हुयी है। इससे यह स्पष्ट है कि भारत में सुविकसित योग परम्परा विद्यमान थी।

Explanations:

उपरि कथनानुसारं सिन्धु सभ्यताया: 2700 ईसापूर्वम् काल: अस्ति। उपर अंकित कथनों के अनुसार सिन्धु सभ्यता का समय 2700 ईसापूर्वम् का है। यह सभ्यता भारतवर्ष में प्राचीन मानी जाती है। इस सभ्यता में भी तथा सरस्वती सभ्यता में भी योगासन तथा योग की मुद्रा आदि प्राप्त हुयी है। इससे यह स्पष्ट है कि भारत में सुविकसित योग परम्परा विद्यमान थी।