4
अधोलिखितं गद्यांशं पठित्वा तदाधारित - प्रश्नानां (346- 352) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत– स: कञ्चन लघुकुटुम्ब:। तस्मिन पितरौ, पुत्र:, पुत्री च आसन् । एकस्मिन् दिने मध्याह्ने पुत्र: भोजनार्थं गृहम् आगत:। माता जलचषकं स्थालिकां च संस्थाप्य अन्नं सारं च पर्यवेषयत् । पुत्र: कवलमात्रं खादित्वा जननीम् अगर्हयत् - ‘‘अम्ब ! किमिदम् ? सार: सम्पूर्ण: लवणमय: । एतत् खादितुं कथं शक्येत ? मह्यं भोजनं मास्तु......’’ मातरं भत्स्र्यमान: एव स: कोपेन गृहात् बहि: गतवान् । सायं दीपज्वालनसमय: अभवत् । तथापि स: युवा पुत्र: गृहं न आगत:। रात्रौ अष्टवादनसमये आगत: स: हस्तपादं प्रक्षाल्य दूरदर्शनस्य पुरत: आसन्दे उपाविशत् , हस्तेन नियन्त्रकं (रिमोट्) गृहीत्वा। निमेषाभ्यन्तरे पिता पुत्रस्य समीपम् आगत:। तं दृष्ट्वा पुत्र: चिन्तितवान्- ‘किमिदं पिता मम समीपे एव आगच्छति ! एतावत्पर्यन्तम् एकवारमपि जल्पनादिकं तेन न कृतं मया सह । इदानीं मां गर्हयितुम् एव आगच्छन् स्यात् प्राय: स:।...’ परन्तु अवनतवदनस्य पुत्रस्य पाश्र्वे उपविशन् पिता प्रावोचत् - ‘‘वत्स, भवान् मध्याह्ने भोजनं कृतवान् ननु ?’’ ‘‘......’’ ‘‘वत्स ! भवन्तम् एव अहं पृच्छामि । भवान् मध्याह्ने भोजनं कृतवान् किम् ?’’ ‘‘आम् !’’ - किञ्चित् रूक्षतया अवदत् पुत्र:। ‘‘कुत्र ?’’ मृदुस्वरेण एव अपृच्छत् पिता। ‘‘मम सुहृद: माम् उपाहारमन्दिरं नीत्वा भोजनं कारितवन्त:’’- किञ्चदपि अविचलित: सन् पुत्र: उक्तवान् । ‘‘सुष्ठु, पुत्र ! सुष्ठु ! भवान् भोजनं कर्तुम् इच्छति चेत् भवता समग्रे अपि विश्वे गृहाणि प्राप्येन् । तत्र ते तुभ्यं स्वादु भोजनमपि दद्यु: परन्तु भवत: मात्रे अस्माकं गृहमेव प्रपञ्च:। तस्या: लोके अहं, भवान् भवत: अनुजा च एव वसाम:। अस्माकं त्रयाणां हितमेव तस्या: लक्ष्यम्। भवता भोजनं न कृतम् इत्यत: सा एतावत्पर्यन्तं बिन्दुमात्रं जलम् अपि न स्वीकृतवती। इतोऽपि तस्या: मन: परितपत् अस्ति- ‘अद्य मया किं कृतम् ! पाकसमये मम अवधानं कुत्र अगच्छत् ? मम अजागरूकताकारणत: सार: लवणमय: जात:। तदर्थं पुत्र: किञ्चिदपि न भुक्तवान् । स: कुत्र गतवान् स्यात् ? क्षुत्पिपासानिवारणार्थं स: कीदृशं कष्टम् अनुभूतवान् स्यात् इति न ज्ञायते’ इति ’’ इति उक्तवान् पिता। पितु: हृदयस्पर्शिनीं वाणीं श्रुत्वा पुत्र: आत्मावलोकनम् अकरोत् । तत: सावधानतया उत्थाय शनै: शनै: जनयित्र्या: समीपम् अगच्छत् । सा म्लानवदना खिन्ना च भूत्वा उपविष्टवती आसीत् तत्र। पुत्र: विनयेन ताम् उपसपर्य मृदुमधुरेण मन्दस्वरेण अकथयत् - ‘‘अम्ब ! महती बुभुक्षा मम। किं न परिवेषयसि अविलम्बेन ?’’ इति।गृहे भोजनं न खादित्वा क: बहि: अगच्छत् ?