5
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: समीचीनमुत्तरं चिनुत। व्याकरणसम्बन्धिदोषादिरहिता व्यवस्थित-क्रियाकारक-विभागसमन्विताया भाषा सा संस्कृतभाषेति कथ्यते। इयं हि भाषा सर्वदोषशून्या अस्ति, अत: देववाणी, गीर्वाण-भारती, अमरभाषा इत्यादिभि: शब्दै: व्यवह्रियते। भाषागतमुदारत्वं मार्दवं मनोज्ञत्वं चास्या: वैशिष्टयम् । सेयं संस्कृतभाषा जगत: सर्वासु भाषासु प्राचीनतमा, सर्वोत्कृष्ट-साहित्य-संयुक्ता च वर्तते। अनन्तानन्तवर्षेषु व्यपगतेष्वपि अस्या माधुर्यम्, उदारत्वं च नाद्यापि विकृतम्। पाश्चात्त्यदेशीया विचारशीला: कीलहार्न-मैक्समूलर-मैकडानाल्ड-कीथादय: विद्वांस: संस्कृत-भाषाया: प्रशंसामकुर्वन् । सर्वासामार्य-भाषाणामुत्पत्ति: अत एव बभूव। पुरा सर्वे जना: संस्कृतभाषयैवाभाषन्त। अत: सर्वमपि प्राक्तनं साहित्यं संस्कृतभाषायामेव उपलभ्यते। सर्वे प्राचीनग्रन्था: चत्वारो वेदाश्च संस्कृत-भाषायामेव सन्ति। वेदेषु मानवकर्तव्याकर्तव्ययो: सम्यक् निर्धारणमस्ति । ततो वेदानां व्याख्यानभूता ब्राह्मणग्रन्था: वर्तन्ते। तदनु अध्यात्मविषयप्रतिपादिका उपनिषदो विद्यन्ते, यासां गरिमा पाश्चात्त्यबहुज्ञैरपि गीयते। ततोऽस्माकं गौरवग्रन्था: षड्दर्शनानि सन्ति। एषामद्यापि विश्वस्य साहित्ये महत्त्वं वर्तते। तत: श्रौतसूत्राणां, गृह्यसूत्राणां वेदव्याख्यानभूतानां षडङ्गानां गणनास्ति। महर्षिवाल्मीकिरचितस्य रामायणस्य, महर्षि-व्यासरचितस्य महाभारतस्य निर्माणमपूर्वघटनैव वर्तते विश्वसाहित्ये। तत्र दुर्लभस्य कवित्वस्य, नैसर्गिक-सौन्दर्यस्य, अध्यात्मज्ञानस्य नीतिशास्त्रस्य च दर्शनं जायते। ततो भासाश्वघोष-कालिदास-भवभूति-दण्डि-बाण-सुबन्धु -हर्षप्रभृतयो महाकाव्यो नाट्यकाराश्च समायान्ति, येषामुदयेन न केवलमार्यावर्त:, अपितु सकलमेतत् जगत् धन्यमात्मानं मन्यते। कवि-वराणा-मेतेषां वर्णने विद्वांसोऽपि न क्षमा: श्रीमद् भगवत्गीता, स्मृतिग्रन्था: पुराणानि च संस्कृतसाहित्यस्य महात्म्यं प्रकटयन्ति। संस्कृतसाहित्यं भारतस्य गौरवमुद्धोषयति। समस्तं देशं च एकतासूत्रे बध्नाति तत् । अस्य साहित्यस्य प्रचार: प्रसारश्च नितान्तं लाभप्रद:। वेदानां व्याख्यानभूता ग्रन्था: के सन्ति ?