9
निर्देश: : अधोलिखितं गद्यांशं पठित्वा तदाधारिताप्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चिनुत। एक: आसीत् प्रेमल: एका चासीत् प्रेमली। काष्ठच्छेदेन श्रान्त: प्रेमल: सायंकाले समागच्छत्, प्रेमलीं चावदत् – प्रेमलि ! अद्य खलु भृशं श्रान्तोऽस्मि । मह्यं जलम् उष्णं कृत्वा देहि । अहं स्नात्वा तस्मिन् जले चरणौ स्थापयामि । तेन मम श्रान्ति: अपगमिष्यति। प्रेमली अवदत् – तवानुरोधं कथमहम् अस्वीकुर्याम् ? पश्य, तत्र हण्डी उपरि स्थापिता । ताम् अवतारय । प्रेमल: हण्डीमवातारयत् । तत: स अवदत् – अधुना किम् करोमि? प्रेमली अवदत् – निकटे कूप: वर्तते । तत्र गत्वा जलं भृत्वा आनय । प्रेमल: घटे जलं सम्पूर्य आगच्छत् । पुन: प्रेमलीम् अपृच्छत् – इदानीं किम् ? प्रेमली अवदत् – अधुना चुल्यां काष्ठानि प्रज्ज्वालय । प्रेमल: काष्ठानि प्रज्ज्वाल्य अपृच्छत् – अग्ने किम् करवाणि ? प्रेमली अकथयत् – यावत् चुल्ली सम्यक् न ज्वलति, यावत् फूत्कुरु, किमन्यत् ? प्रेमलेन चुल्ली सम्यक् प्रज्वालिता । अथ च अपृच्छत् – अधुना किम् करवाणि ? प्रेमली अवदत् – घटात् हण्ड्यां जलं पूरय । तत: हण्डीं चुल्याम् उपरि स्थापय । हण्डीमवतार्य प्रेमल: पृच्छति – अधुना ? प्रेमली वदति – अधुना हण्डीं स्नानगृहे स्थापय । प्रेमल: हण्डीं स्नानगृहे निधाय पृच्छति – अधुना ? प्रेमली निर्दिशत् – सम्प्रति स्नानं कुरु । प्रेमल: स्नात्वा अपृच्छत् – अधुना किम् करणीयम् ? प्रेमली अवदत् – इदानीं हण्डीं यथास्थानं निधेहि । प्रेमल: हण्डीं संस्थाप्य शरीरं हस्तेन संस्पृश्य अकथयत् – करे, कीदृशं पुष्पमिव शरीरं लघु जातम् । यदि त्वं प्रतिदिनं एवमेव जलम् उष्णं कृत्वा मह्यं ददासि तर्हि कियत् शोभनं । प्रेमली अवदत् – किमहं न इति कथयामि ? परन्तु अत्र कस्य आलस्यम् ? प्रेमल: अवदत् – आलस्यं तु ममैव परम् अग्ने आलस्यं न करष्यिामि। प्रेमली अवदत् – अस्तु ! सम्प्रति आवां भोजनं कुर्व:। ‘‘मह्यं जलम् उष्णं कृत्वा देहि।’’ कथनम् इदम् कस्य अस्ति ?