2
निर्देश (106-113) :- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत। अस्माकं भारतवर्ष: अतीव विशाल: अस्ति। अत्र बहव: गिरय: सन्ति। ते गिरय: मेघकलापं धृत्वा वृष्टिं सम्पादयन्ति। तेन अनेका: नद्य: प्रवहन्ति। तासु नदीषु महानदी, गोदावरी, कावेरी, कृष्णा च पूर्वसमुद्रं प्रति प्रवहन्ति। इतरा: साबरमती, ताप्ती, नर्मदा च पश्चिमसमुद्रं प्रति प्रवहन्ति। काश्चन यथा भागीरथी, कालिंदी, गण्डकी कौशिकी च हिमालयशिखरेभ्य: प्रभवन्ति। पुरा सरस्वती अपि पश्चिम समुद्राभिमुखम् एव प्रवहति स्म, परन्तु अद्य अस्या: चिह्नानि एव यत्र तत्र प्रवाहमार्गे प्राप्यन्ते। अन्यासां नदीनां मध्ये भारतस्य मध्यप्रान्ते चर्मण्वती वेत्रवती च नद्यौ प्रसिद्धे स्त:। पुराणकालात् आरभ्य सर्वे भारतीया: नदीनां सम्मानं कुर्वन्ति। क्षेत्रेषु सलिलसेचनेन नद्यपि मातेव भवति। अतएव यानि क्षेत्राणि नदीजलेन प्लावितानि तानि नदीमातृकाणीति प्रसिद्धं यानि च वृष्टिजलेन सिक्तानि तानि देवमातृकाणि इति। वर्षाकालेन वृष्टिपातेन नद्या: जलेन च कृषिक्षेत्राणि प्लावितानि भवन्ति। कृषका: कृषिकार्यं कृत्वा अन्नोत्पादनं कुर्वन्ति। नदीषु विविधा: मत्स्या: निवसन्ति। येषु प्रदेशेषु अनावृष्टि कारणेन जलाभावात् कृषि: न भवति तत्र शासनाधिकारिण: नद्या: जलं प्रतिरुध्य सेतुं बध्नाति। महाजलाशयान् निर्माय जलसञ्चनं कुर्वन्ति। तेभ्य: जलाशयेभ्य: क्षेत्रेषु जलं वितरन्ति। साम्प्रतं महानगरे नद्या: जलमेव प्रतिगृहं सर्वकारेण: सम्प्रेष्यते। नद्यां बन्धं निर्माय तस्मात् विद्युतम् उत्पादयन्ति। एषा जलमूला विद्युत ‘हाइड्रोइलेक्ट्रिकपावर’ इति नाम्ना प्रसिद्धा। पश्यत, नद्य: देशस्य कीदृशमुपकारं कुर्वन्ति। अतएव जना: ता: पूजयन्ति। स्वस्वगृहेषु अधुनाऽपि जना: स्नानसमये सर्वासां नदीनां सान्निध्यं स्नानजलं प्रार्थयन्ते। महाजलाशयान् निर्माय जलसञ्चयं के जना: कुर्वन्ति?